________________
( २५०)
श्रीकल्पसूत्रार्थप्रबोधिनी. काले पर्यङ्कासनासीनः सिद्धिमगमत् । तदवसरे शक्राऽऽसनमकम्पत, तेन भगवतो निर्वाणमवधिना विज्ञायाऽग्रमहिषीलोकपालादिपरिवारैः सह शकस्तत्रागत्य, त्रिःप्रदक्षिणां विधाय निरानन्दो वारिपूर्णलोचनो नाऽतिदूरे नाऽतिसमीपे विहिताञ्जलिरुपतिष्ठते। एवमीशानेन्द्रादयोऽपि सर्वे चलितासना भगवनिर्वाणं ज्ञात्वा, स्वस्वपरिवारपरिवृताः शोचन्तस्तत्राऽष्टापदगिरौ समागत्य वन्दनादिकं विधाय च विधिवत्पर्युपासमानास्तिष्ठन्ति । अथ शकेन्द्रो भवनपतिव्यन्तरज्योतिष्कवैमानिकैर्देवैर्नन्दनवनाद् गोशीर्षचन्दनकाष्ठान्यानाय्य, चितात्रयीं विरचय्याऽऽभियोगिकदेवाऽऽनीतक्षीरोदनी रे तीर्थकृच्छवं सुस्नप्य, गोशीर्षचन्दनेनाऽनुलिप्य, हंसलक्षणकौशैयं पटं परिधाप्य, सर्वाऽऽभरणैर्विभूष्य, विरचितविचित्रचित्रचित्रितायामेकस्यां शिविकायां संस्थाप्य, सुरान्तराश्च स्नानानुलेपन-पटपरिधापनविभूषणैरलङ्कृतगणधरमुनिवरशवान् द्वितीयस्यां तृतीयस्याश्च शिबिकायां निवेश्य चितान्तिकमानिन्यिरे । तत्र शक्रो भगवच्छवं शिविकातो बहिष्कृत्य प्रथमायां चितायामतिष्ठिपत् । एवमितरे देवा गणधरमुनिवरशवाँश्च बहिष्कृत्य द्वितीयस्यां तृतीयस्याञ्च चितायामस्थापयन् । ततः शक्रादेशादग्निकुमारा निरानन्दा निरुत्साहा अग्निं प्राज्वलयन् , वायुकुमारा वायुमजनयन् , इतरे देवास्तासु तिसृषु चितासु कालागरुचन्दनादिसुरभिगन्धानक्षिपन् , सौवर्णैः कलशैघृतैर्मधुभिश्च ता असिञ्चन् । ततोऽस्थिमात्रावशिष्टे शक्राज्ञया मेघकुमारास्तास्तिस्त्रश्चिता निरवापयन् । तदनु शकः प्रभोरुपरितनी दक्षिणां दंष्ट्रां जग्राह, ईशानेन्द्र उपरितनी वामामग्रहीत् । चमरेन्द्रस्त्वधस्तनी दक्षिणां बली. न्द्रोऽधस्तनी वामां ललौ । तदन्ये कियन्तो देवा जिनेन्द्रभक्त्या कियन्त आचारधिया कियन्तश्च धर्मधिया भगवदङ्गोपाङ्गीयास्थीनि जगृहुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org