________________
(२४६)
श्रीकल्पसूचार्यप्रबोधिनी. व्रीडां किं नैषि ? यदस्याने युद्धं कामयसे ?, याहि याहि, अकाले मा म्रियस्व । इत्थमकाण्डब्रह्माण्डक्षयकरं समरमतिघोरतरं तावुभौ भ्रातरौ चक्राते द्वादशाद्वीम् । कोटिप्राया भटा दलद्वये मः, रक्तनद्योऽवहँश्च, परं जयपराजयौ कस्यापि नाऽभूताम् । इत्थं महाऽनर्थ जायमानमालोक्य सौधर्मेन्द्रचमरेन्द्रौ समेत्य भरतमचाते-भोः! मगवान् सकलाँलोकानमण्डत । युवामकाल एव तान् कथं संहरेथाः । । भरतोऽवदत्-किं कुर्याम् ? बाहुबली ममाज्ञां नो मन्यते, अतो मे चक्रमायुधालये नाऽऽयाति, अत्र मम को दोषः । तौ पुनरूचाते-युवां भ्रातरौ स्थः युयुत्सां दधाथे चेदुभावेव युध्येथाम् , लोकानां घयं मा कृषाथाम् । भरतोप्येतत्स्वीचकार । ततस्ताविन्द्रौ बाहुबलिनमागत्य सर्वमवदताम् ! भरत इव बाहुबन्यापि तदुक्तिं मेने । ततस्तौ तयोरेकं दृष्टियुद्धम् , द्वितीयं वागयुद्धं. तृतीयं बाहुयुद्धं, तुर्य मुष्टियुद्धम् , पञ्चमं दण्डयुद्धमिति निरचिनुताम् । ततो विस्तृतभूभागमुत्खन्य वारिमिरभिषिच्य कुसुमानि विकीर्य सुसजिते मृदुतरे भूमौ भरतवाहुबलिनौ परस्परजयैषिणौ कवचं विभ्राणौ युयुत्सया मिमिलतुः। देवादयो व्योम्नि साक्षित्वेन तस्थुः, इतरेऽपि दर्शकाः पङ्क्तिशोऽतिष्ठन् । तत उभौ तौ प्रथमं दृष्टियुद्धं चिकीर्षन्तौ त्राटकमुद्रया परस्परमभिमुखं पश्यन्तौ तस्थतुः । परमतिशौण्डीरवतो भरतस्य विलोकमानस्य दशौ जलार्द्रत्वानिमिमिलतु:, बाहुबली तु पश्यमेव तस्थिवान् । ततो गगनस्थिता लेखाः पुष्पाणि वर्षन्तश्चचक्षिरे-भरतः पराजितः, बाहुबली जितवान् । ततो भरते सिंहनाद वितन्वाने गिरयश्चकम्पिरे, बाहुबलिनि गर्जति सति ब्रह्माण्डोदरं सकलं पुस्फोट, तं शब्दमसहमानो भरतः स्वश्रवसी प्यधत्त । तत्पश्यन्तो देवा भरतं पराजितवान् बाहुबलीति जगदुः । बाहुयुद्धे प्रवृत्ते प्रथमं भरतः स्वभुजमलम्बयत कमलनालमिव लीलयैव बाहुबली तं नमयामास, ततस्तेन प्रसारितं बाहुं नमयितुं चिरं कृतप्रयत्नोऽपि भरतो मनागपि नाऽनीनमत् , किन्तु स्वयमेव चिरं लम्बमानो झुलितवान् । अत्रापि सर्वे बाहुबलिन एव जयश्रियमपश्यन् । ततस्तौ मल्लाविव भुजंस्फालयन्तौ मिमिलतुस्तदा सर्वेषु पश्यत्सु भरतः प्रथम बाहुबलिनं मुष्टिना जघान, तदाघातेन क्षणं सञ्जातनयननिमीलनोऽभूत् । बाहुबली भरतं मुष्टिनाऽताडयत्, तत्प्रहारवेदनामसहमानो भरतो रुधिरं वमन् धरान्तः प्राविशत् । अत्रापि भरतः पराजित इति सर्वेऽजन्पन् । ततो दण्डयुदमुभौ प्रावत्यताम् । तत्र प्रथमं भरतो गदया तं प्राहरत, तेन मृद्घट इव तन्मुकुटं सञ्चूर्णितमाजानुचरणः सोऽधस्तादगमञ्च । बाहुबलिना गदया प्रवृतो भरतस्तु सञ्चूर्णमुकुटः सर्वावयवेन धरातलं प्रविवेश । अत्रापि भरतेन हारितं बाहुबलिना जितम्, इत्युच्चैजेगुः सर्वे ५ । इत्थं जातेष्वपि पञ्चसु युद्धेषु हारितो महतीं चिन्तामधिगच्छन्मनसि व्यमृशत्-यदसौ सुराऽसुरैरजय्योऽपहरिष्यति मे राज्यम् । अतोऽधुनैव समूलमुच्छेदनीय इति, अवधार्य तद्विघाताय चक्रमजहाद परन्तु गोत्रे तत्रैव प्रभवतीति हेतोस्तं प्रदक्षिणीकृत्य पुनर्भरतस्य पाणौ समायातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org