________________
अष्टमं व्याख्यानम् ।
(२४७) अथ भ्रष्टप्रतिज्ञमवलोक्य प्रकुपितो बाहुबलीमुष्टिमुद्यम्य भरतं हिंसितुमुत्तस्थौ । तदोक्तं देवैः-राजन् ! विमृश्यतां विमृश्यताम् । तेन वचसा ज्ञातसारोऽसौ ' धिङ्मा राज्यश्चैतत् , यल्लोकेनाऽकार्यमपि कारयते, विवेकश्च लुम्पति । अहो ! कीदृशो मे मतिविभ्रयोऽजनि येनाऽहमग्रजन्मानमपि हन्तुं प्रावृतम्' इति विमृश्य वैराग्यभावमापनस्तदा तेनैव मुष्टिना लोचं कृत्वा प्रवव्राज । तस्मिन् दीचिते 'अहो मयैव हेतुना सकला भ्रातरः प्रयव्रजुस्तत्यजुश्चाऽसारमेनं संसारम् , इति चिरं विलप्य तत्पुत्रं सोमयशसं तचशिलानगर्या अधिपतिं कृत्वा, भरतः स्वराजधानीमयोध्यामागात् । इतश्च बाहुबली विइत्याऽग्रे गत्वा सम्प्रति श्रीऋषभदेवपार्श्वे गमने लघुबान्धवा अपि वन्दनीया भविप्यन्ति, तदन्यत्रैव तावन्मया स्थातव्यम् , समुत्पन्ने च केवले भगवतां समवसरणे ब्रजिप्यामि' इति विमृश्य तत्रैव वर्ष यावत्तस्थौ। अहङ्कतिमत्वाजातेऽब्दे केवलमलममानस्य तस्य प्रतिबोधार्थ भगवत्प्रेषिता ब्राह्मी सुन्दरी च तत्रागत्य जगदतुः-वीरबन्धो ! भूयान् कालो यातः, अधुनापि गजादवतर, इति वचः श्रुत्वैव समुज्झितामिमानस्य तस्य केवलज्ञानमुत्पेदे । ततः प्रभुसमवसरणमागत्य केवलिनां पङ्कावुपाविशत् । १०८ भरतेन सधर्मिणामुपवीतदानं, भोजनश्च
अथैकदा भगवाञ्छीऋषभदेवोऽष्टापदाचलोपरि समवससार । 'मया किमप्यन्यद्धर्मकृत्यं नाऽकारि, अतोऽद्य समागतेभ्यः पञ्चशत. साधुभ्यः प्रासुकाऽऽहारं दद्यां चेदरम् ' इति निश्चित्य भरतः पञ्चशतशकटीं मोदकादिविविधरसवदाहारैर्भूत्वा, तत्राऽऽनीय भगवत्पार्श्वमाग. त्य तमभिवन्द्यैवमभ्यर्थयत-प्रभो ! अद्य मम गृहादाहारमानेतुं सकलमुनिमण्डलीमादिश । भगवानुवाच-भरत ! आधार्मिकराज्यपिण्डं साधुभ्यो नैव कल्पते, तथाऽभिमुखमानीतमशनादिक्कमनादेयमेवाऽस्ति साधूनामिति हेतोः साधवो न ग्रहीष्यन्ति । तच्छ्रुत्वा भरतोऽधिकं चिखेदे-अहमधन्योऽस्मि यतः कामपि भक्तिं कर्तुं न प्राभूवम् । तदा सुरेन्द्रो भगवन्तमप्राक्षीत्-जगजीवहितैषिन् ! अवग्रहः कतिविधो वर्तते १ । भगवानुवाच-सुरेन्द्र ! एक इन्द्रस्य, द्वितीयः क्षितीन्द्रस्य, तुतीयो गृहपतेः, तुर्यः सागारिकस्य, पञ्चमः सधर्मिणः। तत आख्यदिन्द्रः-प्रभो ! दक्षिणभरतक्षेत्रेषु स्वैरं विहत्तुं सर्वसाधूनहमादिशामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org