SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ( २४८ ) श्रीकल्पसूत्रार्थप्रबोधिनी. तदनु भरतो जगाद - भगवन् ! मदीयषड्खण्डायामस्यां धरायां सर्वान्मुनीन् विहतुमाज्ञापयामि इत्यादिश्याधिकमतुष्यद्भरतः । तदोवाच सुरेशं भरतः - सुरपते ! मयानीताऽऽहारादिकं किं क्रियताम् ? सोऽवक्— ये सन्ति भवतोऽधिकगुणवन्तस्तान् भोजय । ततस्तच्छ्रावकानबूभुजत्, भुञ्जनेषु तेषु लोके ब्रह्मभोजनं प्रववृते । ततः प्रभृतिभरतचक्री राज्यं कुर्वन्नैयत्येन सधर्मिणो भोजयितुं लग्नः । इत्थं भोजयतस्तस्य कियत्यपि समयेऽतीते यदा भोक्तृणामानन्त्यमदर्शत्, तदा परीक्ष्य सहधर्मिभ्यः प्रत्येकं काकिणीरत्नमयं देवगुरुधर्मलक्षणतत्त्वत्रयीरेखाङ्कितमुपवीतमदात् । अथैकदा भरतो वासवमपृच्छत् — सुरपते ! तव नैसकिं रूपं की गस्ति ?, तदा स एकाङ्गुलीमदर्शयतां महाज्वालाकुलामत एव दुर्दशमवलोक्य चमत्कृतो जातो भरतः । ततः प्रत्यब्दमिन्द्रमहोत्सवं प्रावीवृतत् । १०६ भरतस्य केवलज्ञानम् - अथ विहरनेकदा भगवान् विनीतानगरीमायातः । भरतादयः सर्वे पौरा वन्दनार्थमाजग्मुः । भगवान् देशनां ददानः संसारेऽस्मिन्ननित्यत्वमदर्शयत् । यदेष जीवः कर्मभारेण मृद्भाराक्रान्ततुम्बीव संसाराम्भोधौ निमज्जति । ईदृशीं भागवतीं देशनामाकर्ण्य भरतो वैराग्यमाससाद | एकदाऽऽदर्शभवने समासीनो मुद्रिकाविधुरां स्वाङ्गलीमालोक्याऽनित्यतां विभावयन् केवलज्ञानमासाद्य, दशसहस्र नरनाथैः सह दे वार्पित साधुवेषमादाय, चिरमत्र विहृत्य मोक्षमापत् । तदाऽऽसनाऽऽसीन आदित्ययशा राजोपवीतदानेन सहधर्मिणो भोजयामास । एवमष्टपट्टीं यावत्सर्वे मोक्षगन्तारः श्रावकाणां भोजयितारश्च बभूवुः । भरतचक्रवर्त्तपदे ' आदित्ययशाः १, महायशाः २, अभिबलः ३, बलभद्रः ४, बलवीर्यः ५, कीर्त्तिवीर्यः ६, जलवीर्यः ७, दण्डवीर्यः ८ एतेऽष्टावपि राजानो भगवत्परिहितमुकुटं परिदधुः । सुचिरं राज्यमुपभुज्य प्रान्ते " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy