________________
अष्टमं व्याख्यानम् ।
( २४५ )
बाहुबन्यपि समरोन्मुखः श्रीऋषभदेवं संपूज्य, वज्रसन्नाहं परिधाय, सकलं जगत्तृणाय । मन्यमानो भद्राख्य महागजारूढखिलक्षपुत्रैः पौत्रैरर्कसहस्रमहीशैः कियद्भिर्विद्याधरैर्बहुभिभेटैश्चतुरङ्गबलैः सहाभिमुखमाययौ, कृतवाँश्च स्वसुतं सिंहरथं सेनानीम् । तदा दलद्वयमेलनादितिश्चकम्पे, सागराचुक्षुभिरे, गिरिशिखराणि निपेतुः । ततो भारते सैन्ये षोडशसहस्ररणदुन्दुभयो नेदुः । बाहुबलिनः सेना अपि लक्षप्रमाणानि रणवाद्यानि वादयन्त्यस्तस्थुः । बन्दिनश्च दलद्वये स्थिता बिरुदावलम्पेिटुः । द्वयोः सैन्यानि गजारूढा गजारोहिभिस्तुरगारोहिणस्तुरगारूढै रथिनोरथिभिः पत्तयः पत्तिभिर्विद्याधरैर्विद्याधरा न्यायतः परस्परं योद्धुमारेभिरे । तत्र सुषेण सेनापतिरभिमुखमागच्छन्तं सिंहरथमाख्यत् - भोः ! श्रहमस्मि भरतस्य भृत्यः, त्वमसि राजसूनुरतः स्वामित्वात्वमेव प्रथमं मयि प्रहर ?, तन्निशम्य सिंहरथस्तदुपरि शस्त्रममुञ्चत् । ततः सुषेणः कृपाणं तदुपरि मुमोच तमधिमार्गमेव सिंहरथभ्राता सिंहकेतुरच्छिनत् । ततः प्रकुपितः सुषेणो मृगामृगपतिरिव सिंहरथीयं बलं निमन् बाहुबलिनः समीपमागात् । तावत्तत्राऽनिल वेगविद्याधरः समेत्य बाहुबलिनं प्रणम्य सुषेणेन सह योद्धुमलगत् । उभौ हप्तौ महौजसौ महामन्नाविव सुचिरं बाहुबाहवि मुष्टीमुष्टि यष्टीयष्टि युयुधाते । तदा लब्धावसरः सुषेणः सितासिमुद्यम्य सिंहरथं हिंसितुं यावदधावत्, तावत्सूर्यमस्तमितमलोकत, ततस्तस्मात्स स्वयमेव न्यवर्त्तत । यदुभयदले किलैवं नियम आसीत् - श्री ऋषभदेवे शरणीकृते, सूर्ये चा. स्तङ्गते, वर्षति च मेघे न योद्धव्यम् । तत्र रणावनौ ये भटा म्रियन्ते तेषां तु संस्कृतिमेव प्रतिक्रियां विदधिरे । ये पुनरस्त्रशस्त्रादिप्रहारजर्जरीकृता मृतकल्पा आसन्, ताँस्तु शिविरमानीय दिव्यरत्नीय जलसेचनादिना सज्जितानकरोद्भरतः । बाहुबली तु सोमयशसो हृदाभरणवारिणा सजयाञ्चकार ।
जाते च प्रभाते सुषेण सेनानीरनिलवेगमालोक्य हुतभुगिव प्रज्वलस्तं हिंसितुं यावदैच्छत्, तावन्मध्ये सिंहरथः समागत्य मेघ इव गर्जन् योद्धुमाकारयत् । अनिलवेगस्तु भारतीं सेनां मनन् गजराजविरचितत्रिकोट्टान्तः सुप्तस्य भरतस्य पार्श्वमागात् । तमागतं बिलोकमानो भरतः कदाचिन्मामेव हन्यात्, इति विमृश्य तदुपरि चक्रं मुमोच । तद्विलोक्याऽनिल वेगस्ततः पलायत, परन्तु यत्र यत्र याति तत्र तत्र तदेव पश्यति । अतचक्रभीत्या वज्रमयं देहं विधाय लवणोदधावेव षण्मासीं यावदस्थात्, तत्रापि शिरसि श्राम्यदासीच्चक्रमपि । ततः परं सागरान्निर्गतां तत्प्रतिकृतिं छत्वा चक्रं न्यवर्त्तत । कटकमतिक्रम्य समीपमागत्य प्रहरतां प्रहरतामिति सगर्व वदन्तं वैपक्षिकं सूर्ययशसं सुभटं बाहुबली जगाद - रे ! त्वमसि प्रशस्यः शौण्डीरः परं ममैकमुष्टिनापि निहतचूर्णीमविष्यसि, अतो दूरमपसर । तदैव केनचिद्देवेनोक्तम् – रे मूर्ख ! त्वमनुना युयुत्सुर्मनसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org