________________
(२४४)
श्रीकल्पसूत्रार्थप्रबोधिनी. प्यायुधशाला प्रवेष्टुं नार्हति । अतोऽचिरादेव समूलं समुच्छेदनीय, इति मन्त्रिवचः श्रुत्वा भरतः सुवेगनामानं चतुरं दूतं बाहुबलिनः पार्श्व प्रैषयत् । दूनो रथारूढश्चचाल । तदा मार्गे रथचक्रं भग्नम् । प्रयाणसमये पृष्ठे कश्चिच्चुक्षाव । वमने च कण्टकेऽलगत् । दक्षिणे रासभो ररास । इत्याद्यपशकुनैर्मनसा शङ्कमानो दूतो गिरिकाननादिकमुलंध्य कतिपयदिवसैस्तद्राज्ये समायातः । तत्रैकग्रामे धूलिलिप्तपादमालोक्य जलहारिण्यस्तमप्राक्षु:-वं कोसि ! कुत आगच्छसि ? कुत्र वा जिगमिषसि ? कश्च ते राजा ? । दूतोऽवदत्-यूयं मां भरतस्य चक्रिणो दूतमवगच्छत । ता पुनरूचे-कोऽयं भरतः ? यो हि कञ्चुकीषुभरतः सः १, अथवा मृण्मयभाण्डेषु यस्तिष्ठति सः ?, किंवा रोगजो भरतः १; एतत्रयादन्यः कोऽपि भरतोऽस्माभिरद्यावधि नाऽऽकर्णि । तदुक्त्या वि-िमतो दतो पाहुबलिनो राज्यं महदस्ति, इति मन्यमानस्तक्षशिलानगरीमागात् । ततो राजद्वारमागत्य नृपादेशात्समा प्रविश्य बाहुबालनं प्राणमत् । नृपेण योग्यासनोपरि समुशवेश्य पृट:दुत ! सपादकोटिपुत्रादिपरिजनैः सह भरतः कुशलमनुभवति ? । दृतोऽजन्पत्-यमनवरतं देवा राजानः परिजनाश्च सेवन्ते स तु सदैव कुशली वर्त्तते, परन्तु भवानेव तं सेवितुं तत्र नागाव , अतः सकलं निष्फलं मनुते सः । अतस्त्वं तत्र याहि, तं मजस्व, एतावन्ति दिनानि यनागास्तदपराध क्षमय । यदि सुखेन जिजीविपसि राज्यं वा बुभुक्षसे, चेत्तर्हि तूर्ण तत्र गत्वा तच्चरणकमलयुगलं भजस्व । राजा तमवादी---त्वामधुना वधार्हमपि दौत्येन हेतुना जीवन्तं मुश्चामि, अतस्तूर्णं गत्वा भरतं ब्रूहि । यहाहुबली स्वप्नेऽपि त्वां सेवितुं नेहते । युयुत्सां बिभर्ति चेद्रुतमायातु समरावनाविति सरोषमादिश्य संभयं च तं निरकाशयत् । सोऽप्ययोध्यामागत्य तदुक्तमशेषं भरताग्रे जजन्प । तदाकर्ण्य प्रकुपितो भरतस्तदैव समरपटहं वादयश्चतुरङ्गबलं सजीकृत्य, श्रीऋ. षभदेवमभ्यर्च्य, वज्रसमाहं परिधाय गजराजमारुह्य, समराय प्रयाणमकरोत् । सपादकोटिमितास्तत्पुत्रास्तमन्वगुः, तेषामपि पुत्रा असंख्याश्चेलुः । तत्र गजाश्चतुरशीतिलतम् , तुरङ्गमा अपि जविष्ठास्तावन्तः, रथाश्चाप्येतावन्तः, पत्तीनां षण्णवतिकोटिः, समरतूर्यवादिनः पोडशलक्षम् , ध्वजिनां दशकोटिः, चतुरशीतिलक्षप्रमाणा महानिशानधराः, चतुर्दशसहस्राणि महामात्याः, जात्याश्वा महातुङ्गा वाजिनोऽष्टादशकोटिः, पश्चाशत्कोटिरुद्योतकराः, नवनिधयः, चतुर्दशरत्नानि, यक्षगणः षोडशसहस्रम् , द्वात्रिंशत्सहस्रसंख्याका मुकुटबद्ध राजानः, वारविलासिनीसहिताश्चतुःषष्टिसहस्रराजकन्याः, द्वात्रिंशत्सहसनर्तकाः, अन्येऽपि यक्षकिन्नरविद्याधरप्रमुखाः कियन्तोऽनुजग्मुः । इत्थं विशालभालबद्ध महासमरपट्टो भरतचक्रवर्ती सुषेण नामानं चमुपति पुरस्कृत्य, गच्छन्ननुक्रमेण बलोरिक्षम जोभिगंगनमाच्छादयन् कतिपयप्रयाणेबाहुबलिनो राज्यसीम्नि समागत्य तस्थौ ।
१ पुत्राणां कोटित्रयमिति कचिदलिखत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org