________________
अष्टमं व्याख्यानम् |
( २४३ )
नमुत्पेदे तस्य ' प्रयागवट ' इत्यभिधा जाता, अद्यापि तन्नाम्नैव लोके प्रख्याति, मह्यते च ।
१०६ भरतस्य षट्खण्डसाधनं, सुन्दर्या दीक्षणञ्च
अथ भरतो नरपतिः स्वगृहे प्रादुर्भूतचक्र हेतोराष्टाहिक महोत्सवं व्यतानीत् । ततो महता महेन क्षितेः षट्खण्डान् साधयितुं चतुरङ्गचम्चापरिवृतश्चचाल । तदग्रे सहस्रदेवाधिष्ठितं चक्रं यावन्तं पन्थानमतिक्रम्य प्रत्यहं तिष्ठति स्म, तदनुगतं सैन्यमप्यतिष्ठत् । इत्थं व्रजन्ननुक्रमेण गङ्गानद्यास्तीरमागत्य तस्थौ । तत्र गङ्गादेव्या आदेशेन तत्सदने निवसन् गङ्गया सत्रा नवनवं विषयसुखमभुङ्क्त । ततस्तद्दत्तमार्गेण तमित्रां गुहामुल्लंघ्य म्लेच्छदेशान् शेषानपि पञ्चखण्डान् संसाध्य, षष्टिसहस्रवर्षेभरतचक्री पुनरयोध्यामाययौ । ततो नमिविद्याधरस्य गृहे स्त्रीरत्नमुत्पेदे, तां पर्यणैषीद्भरतः । सुन्दर्यपि तावत्सहस्रवर्षाणि यथावदाचामाम्लं तपश्चक्रे, तेनाऽतिकार्यं नीता सती समागताय भरताय मौक्तिकभृतस्थालमुपदीचक्रे । तामतिकृशामवलोक्य तत्कारणञ्चावगत्य तां प्रत्रजितुमादिशत् तदनु सापि दीक्षां लात्वा साध्वी जज्ञे ।
१०७ भरतबाहुबलिनोर्मिथो युद्धं, बाहुबलिनः प्रव्रज्या च
अथैकश्चत्रशालीयः पुमानागत्य भरतमाख्यत् — चक्रं शालान्तर्नाऽऽयाति बहिरेव तिष्ठति । भरतोऽवदत् - कथं नायाति ? । तेनोक्तम्- सर्वे नरनाथास्त्वदाज्ञां स्वजमिव वहन्ति, किन्तु भ्रातरस्ते नैव मन्यन्ते, अतश्चक्रं शालान्तर्नाऽऽयाति । तदा दूतमुखेन सर्वान् भ्रातॄनाख्यत्-यूयं स्वस्वराज्यं चिकीर्षथ चेत्सर्वेऽत्रागत्य ममाज्ञां स्रजमिव शिरसा विभृत, नोचेद्रो राज्यमपहरिष्यामि । इति श्रुत्वाऽष्टनवतिबन्धवः परस्परं व्यमृशन् । यत्सर्वेषां नः पित्रैव राज्यमदायि नो दत्तं भरतेन, तर्हि भरतस्य दासतां कथं स्वीकुर्मः ?, इति विनिश्चित्य सर्वे ते भगवत्पार्श्वमाजग्मुः । प्रभुणापि वैतालीयाध्मयन प्ररूपणया प्रतिबोधितास्ते सकलाः प्रब्राजिताः । तदपि तच्चक्रं बहिरेवाऽतिष्ठत्, तद् दृष्ट्वा मन्त्री जगादस्वामिन् ! सर्वे भवदाज्ञां मालामिवोडुः, केवलं महादृप्त एको बाहुबली तत्राज्ञां नोररीकरोति, जानाति स निजभुजपराक्रमाधिक्यम् । सति तस्मिन् प्रतिकूले चक्रं कदाचिद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org