________________
( २४२ )
श्री कल्पसूत्रार्थप्रबोधिनी,
वीतरागत्वात्केनापि सह रागं द्वेषमेष कथं कुर्यात् ?, अहन्तु सरागित्वान्मुधैव विकल्पनमकरवम् । यदत्र संसारे कोऽपि कस्यापि नास्ति, सर्व हि स्वार्थतामेव नयते । काऽहं कश्च मे सूनुरिति विचिन्तयन्ती सर्वतो ममत्वभावमुज्झन्ती, भावयन्ती चाव्यक्तभावं तदैव केवलज्ञानमित्वाऽन्तकृत्केवलिनी सती मोक्षं ययौ । अत्रैवमाह कविः - विश्वस्मिन् युगादीशसमः पुत्रः कोऽप्यन्यो नाऽभूत्, येन जगत्यां सहस्राब्दीं भ्रान्त्वा महताकष्टेन केवलरत्नमतिश्रेष्ठं लेभे, अदायि च तदेवाऽर्जितं जनन्या अपि स्नेहात् । मरुदेवी मातापि समा काप्यन्या जगति नाऽभूत्, या हि मुक्तिवधूं पुत्रेण सह परिणिनाययिषुः प्रागेव तामीक्षितुं तत्राऽऽगात् । ' अस्यामवसर्पिण्यामेषा मरुदेवी मातैव सर्वतः प्राङ् मोक्षमापत् । तत इन्द्रादिका देवस्तच्छवं विधिवत्संस्कृत्य श्रीराम्बुधौ चिक्षिपुः, सुरेन्द्रवचसा शोकं त्यक्त्वा स्नानादिकं कृत्वा, हर्षशोकाकुलीभूतो भरतो भगवन्तमाभिवन्द्य प्रमुमुदे । पप्रथे च लोके भगवान् प्रथमः केवलति ।
१०५ भगवतत्कृत संघस्थापना
अथ वन्दनादिकं विधाय सपरिवारे राजनि भरते सभायामासीने भगवान् धर्मदेशनामारेभे । तां श्रुत्वा भरतस्य ऋषभसेनादयः पुत्राः पञ्चशतं सप्तशतीं पौत्राणामित्थं द्वादशशतराजकुमारा दीक्षिता अभूवन्, बाहुबलिनमापृच्छय ब्राह्म्यपि दीक्षामलासीत्, भरतश्च श्रावकतामापेदे सुन्दर्यपि प्रव्रज्यां जिघृक्षूर्भरतं बभाषे, परमेनामतिरूपवतीमवगच्छन्न रौत्सीत्तेन श्राविकाऽभवत् । पुण्डरीकप्रमुखाँश्चतुरशीतिगणधरानतिष्ठिपत् । इत्थं चतुर्धात्मकसङ्घस्थापनाद्भगवान् प्रथमस्तीर्थङ्करो बभूव । तदा कच्छमहाकच्छौ विहाय ते सर्वे तापसा भगवत्पार्श्वे पुनदक्षां ललुः । भरतश्च भगवन्तं वन्दित्वाऽयोध्यामागात् । भगवानप्यनेकजीवाँस्तारयितुमन्यत्र व्यहरत । यस्य तरोस्तले भगवतः केवलज्ञा
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org