________________
अष्टमं व्याख्यानम् ।
( २४१ )
a
प्रकटितं तन्तु लौकिकमेव फलं प्रसवितुमर्हति । अत एव लोकोत्तर फलदायी श्रीतीर्थकुदुद्भूतकेवलमहोत्सवं विधायैव चक्राविर्भावमहोत्सवो विधातव्यः । इति निश्चित्य लोकद्वयोरुपकरिष्णु केवलमहिमानं विवर्धयिषू राजा भरतो मरुदेव्याः समीपमागत्य तामाख्यातुं लग्नः - पितामहि ! यदर्थमियन्तं कालं भृशमशोची:, माञ्चोपालभत स ते सूनुर्महत्या समृद्ध्याऽधुनाऽत्राऽऽयातः । अतोऽधुनैव मया सह ब्रज त्वां दर्शयिष्यामि । इति निगद्यतां महागजोपर्यारोप्य महत्या समृद्ध्या सपरिवारः समवसरणाद्नतिदूरे समायातः । मरुदेव्या पृष्टः- वत्स ! देवदुन्दुभीनादः कथं श्रूयते ? | भरतोऽजल्पत्-तवैव पुत्रस्याऽग्रे । परमेतत्सा तथ्यं न मेने, ततोऽग्रे गत्वा केवलज्ञानमहोत्सवविधित्या समागतदेवदेवीनां कोलाहलं श्रुत्वा पुनरपृच्छत्सा - किमर्थं केषामेष कोलाहलः ? । भरत उवाच - तव सूनुमर्चितुमागतदेवदेवीनामयङ्कोलाहलो जायते । पश्येदं रत्नस्वर्णरजतभयत्रिवप्रोपशोभितं निजात्मजस्य सदनम् । एतस्यानुपमां शोभां सहस्रवदनोऽपि वर्णयितुं नार्हति, तर्हि मनुष्य एकेन मुखेन कथं कुर्वीत ? । इत्थमात्मजमाहात्म्यमाकर्ण्य निःसीमानन्दोदयादुज्झितलोचनयुगलच्छदा सा समवसरणे स्वर्णसिंहासनासीनं स्वपुत्रं देवदेवीगणैः सेव्यमानमवलोक्य मनस्यचिन्तयत् - अहो ! मोहमहिमा बलीयानस्ति । यमहं दुःखिनं जानाना दिवानिशमशोचिषम् स तु महेन्द्रादपि गरिष्ठं सुखमनुभवन्नवलोक्यते । यदर्थं रुदित्वा रुदित्वाऽन्धत्वमायम्, स तु मनागपि मां नैव सस्मार । पुत्रो मे क्षुत्तृभ्यां शीतेन वातेन जलेन तापेन पराभूयमानो रङ्क इव निर्वसन उपानद्विहीनः पादचारी निर्जनकाननादौ दुःखी तिष्ठति तमागृह्य गृहमानय, इति भरतमुपालम्भयन्ती किलासम् । अयन्तु मामकं जात्वपि नैव गणयति सुखशान्तिमपि निजां नाऽबूबुधत, अतो मोहमेनं धिगस्तु | अथवा
"
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org