________________
( २४०)
श्रीकल्पसूत्रार्थप्रबोधिनी. क्वापि श्मशाने गुहायां वा तपस्यञ्छीतोष्णे सहमानः प्रावृषि जलेन क्लिद्यन् दंशमशकादिभिर्दन्दह्यमानो भविष्यति । हा ! हा ! ! ! पुत्रस्ये. दृशं दुःखं शृण्वत्या मम हृदयं सहस्रधा कथं न जायते ? । अरे ! त्वमत्र राज्यं कुर्वन् नानाविधसुखमनुभवसि । नानाविधमाभरणं सौवर्ण महाहरत्नजटितं परिधत्से । लक्षपाकादितैलं तनौ मर्दयसि । नानाप्र. कारं सरसं पौष्टिकमभ्यवहरसि । नानाचित्रचित्रिते मृदुले शयने सुखेन शेषे । नानासामन्तमाण्डलिकसुभटकोटिभिरहर्निशं परिवृतोऽसि । मधुरतरगीतवादित्रादिरवैर्जागरितोऽसि । मम पुत्रस्तु प्रतिगृहं रङ्क इव भिक्षमाणः कदन्नमश्नाति । नग्नः पर्यटति । कण्टककङ्करादिकठिनीकृते भूतले स्वपिति । शृगालादिदुःश्रवैरवैर्जागर्ति । क्षुत्तृभ्यां बाध्यमानः शरीरसुश्रूषादिसमुज्झितो निरुपानत्पादेन चरति । त्वं कदापि तच्चिन्तां न कुरुषे । इत्थमुपालम्भयन्ती सततं रुदतीं तामाश्वासयति भरतः—पितामहि ! तदर्थ भनागपि मा शोचीः, पुत्रस्ते लेशतोऽपि दुःखं नानुभवति, सदैव सुखी वर्त्तते । एवञ्चेत्तर्हि तं मां दर्शय, तदा सत्यं मनिष्ये, इति तयोदिते भरतो जगौ-धीरा भव ! अचिरादत्रैवागतं तं द्रक्ष्यसि । अथ भगवान् वर्षाणां सहस्रं देहं व्युदसृजत् । अयं कमप्युपसर्ग नालभत, केवलमब्दमेकमाहारवैकल्यमाप्तवान् । एतच्च धीरतया सहमान आत्मानं भावयन् भगवान् सहस्राब्दी व्यत्यैत् । ततः फाल्गुनकृष्णैकादश्यां पूर्वाह्नवेलायां पुरिमतालनामकविनीताशा. खापुर्या बहिः शकटमुखोद्याने न्यग्रोधतरोस्तले निर्जलमष्टमंतपः कुर्वन्नुत्तराषाढानक्षत्रे चन्द्रयोगे शुक्लध्यानस्य मध्यभागे वर्तमानो निरुपममनन्तमत्युज्ज्वलं केवलज्ञानं केवलदर्शनञ्च प्रभुरध्यगच्छत् , तद्योगासर्वमतीताऽनागतं भावं पश्यन् भगवान् सर्वत्र विचचार । इतश्च राज्ञो भरतस्याऽऽयुधशालायां चक्ररत्नमाविरासीत् । युगपदेवोभयोर्वर्धापनमागात् । तावुभौ हर्षदानं प्रदाय विसृज्य भरतो दथ्यौ-यदिदं चक्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org