________________
अष्टमं व्याख्यानम् ।
रायभूत कर्मयोगांद्वर्षमेकं भगवान् क्वापि भिक्षां न लेभे ।
१०३ बाहुबलिकृतधर्म चक्रपीठनिर्माणम्
अथ विहरमाणो भगवानेकदा बहुलीदेशे तक्षशिलानगर्या मुद्याने सायङ्काले समागत्य कायोत्सर्गेण तस्थिवान् । तदा वनपालः समेत्य बाहुबलिने राज्ञे विज्ञपयाञ्चक्रे भगवदागमनम् । तस्मै तुष्टिदानं प्रदाय राजा मनसि दध्यौ - यन्मया सपरिवारेण भगवद्वन्दनार्थं गन्तव्यम्, इदानीं निशि सर्वे परिवारा एकत्री भवितुं नार्हन्तीति प्रभाते गन्तव्यमित्यवधार्य निश्चिन्तस्तस्थौ । जाते च प्रभाते सुसज्जिते च नगरे नानानरपतित्रिलक्षतनयाऽन्तःपुरादिसकलपरिवारयुतो राजा तत्राऽऽययौ । तावत्प्रभुर्निर्बाधविहारित्वादन्यत्र विजहार । अत एव विद्यमानो राजा तारस्वरेण रोरुद्यमानः प्रभोश्चरणस्थाने स्थित्वा भूयो भूयः ' बाबा आदम बाबा आदम ' इति व्याजहार । ततो यत्राऽतिष्ठत्कायोत्सर्गेण प्रभुस्तत्राऽष्टयोजनविस्तीर्णं योजनोन्नतं सहस्रकोणं सहस्रसोपानविभूषितं धर्मचक्राभिधं रत्नमयं पीठमचीकरत्, तदुपरि महामहेन भगवच्चरपादुकेऽतिष्ठिपत्, तद्भगवद्धियाऽनंसीत् । इतरेऽपि लोकास्तन्नामं नामं मुमुदिरे, तत्र च पप्रथे तत्कृतपीठस्य महिमा सर्वत्र ।
१०४ भगवतः समुदिते केवलज्ञाने मरुदेव्याः सिद्धिगमनम् --
अथ प्रव्रज्याकालिकविहारदिवसादेव माता मरुदेवी पुत्रस्नेहाद् भृशमुपालभमाना भरतं सततमेवं बत्रीति स्म - -वत्स ! ऋषभः कमलजमिव मामुज्झित्वा वने न्यवात्सीत् । क्षुधया तृषया च परिपीडितः
( २३६ )
१ पुरा महाविदेहे भगवान् षरिमन्त्रैः सह प्रव्रज्य सह विहरनेकदा कचित्स्खले धान्यं मर्दयन् कश्चिन्मुखमवनम्य धान्यमश्नतो वृषभस्य मुखं गाढमताडयत । तदुदीक्ष्य भगवान्मनसि दयौ - वेदस्य मुखं शिक्येन पिदध्यात्, तर्हि तदखादमेव वहेदिति ध्यातमनालोचितं पापमत्रोदैत्, इति कचित्पुस्तके लेखि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org