________________
( २३८ )
श्री कल्पसूत्रार्थप्रबोधिनी.
I
बभूव । पञ्चमे भवे भगवानेष वैद्यपुत्रजीवानन्दाभिधोऽभूत्, अहन्तु तत्सखोऽभूवम् । षष्टे चावामच्युते देवलोके सुहृदौ देवौ जातौ । सप्तमे भगवान् वज्रनाभनामा चक्रवर्त्त्यजायत, अहं तत्सारथिरभूवम् । अष्टमे च भवे सर्वार्थसिद्धविमाने देवत्वेनोदपत्स्वहि । ततश्युतोऽयं ऋषभदेवो वर्त्तते, अहं तस्य प्रपौत्रतां नीतोऽस्मि । इयतीं वेलां कापि मे तत्स्मृतिर्नाssसीत्, परमधुनैनं प्रभुमालोक्य प्राग्भवं तदशेषमस्मार्षम् । अतोऽहं प्राकू पालितदीक्षः साधोः सर्वमाचारमस्मरम् । एष प्रभुर्निस्पृहो वीतरागो धनादिकं नैव कामयते । ततो लोकाः साधुभ्य आहारदानविधिं विदाञ्चकुः । अस्यामवसर्पिण्यां सर्वत आदौ सुपात्रदानं श्रेयांसकुमारश्चक्रिवान् । यतः - सहस्रमिथ्यात्विभ्य एको जिनाश्रयी श्रेयान्, तत्सहस्रादेको ह्यणुव्रती वरम्, अणुव्रतिसहस्रादेको महाव्रती श्रेष्ठः, महात्रतिसहस्रेभ्य एको जिनेश्वरो महान् भवति । अतो हि जिनेश्वरसमं पात्रं नो भूतं नो भविष्यति । शुभेप्सुभिरमुष्मै विशिष्टपात्रत्वाद्दानं प्रदेयमेव । १०२ प्रभोराहारान्तरायकर्मोदयप्रदर्शनम् -
अथैकं वर्षं यस्याऽन्तरायभूतस्य प्रागर्जितस्य कर्मण उदयादिह भगवान् कापि प्रासुकमाहारं नालभत तदेव दर्शयति- भगवानेष पुरा कचिच्छ्रेष्टि भवे लोकानां कुसीदेनाऽन्नं ददाति स्म । एकस्मिन् दिने तल्लातुं ग्रामान्तरं यातस्तत्र वृषभवृन्देन धान्यं मर्दयन् कर्षको मुखमवनम्य भूयोभूयस्तद्भुआनस्यैकस्य वृषभस्य तुण्डे कशया गाढं जघान । तदवलोक्य दयया श्रेष्ठी तमवदत् - रे ! चाण्डाल इव मुखे कराया मा हिंसीः, अश्नाति चेच्छिक्ये मुखं पिधेहि । एवं श्रेष्ठिनोक्तं श्रुत्वा सोऽपि तयैव तन्मुखं द्वादशप्रहरपर्यन्तं प्यधत्त, तेन पापेनार्जिताऽन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org