________________
अष्टमं व्याख्यानम् ।
( २३७ )
इत्थं विवदमानावुभौ श्रेयांसोऽभ्यर्थयत - युवां स्वस्वकार्यसंसाधने तुल्यौ पटीयांसौ स्तः कोऽपि कस्मान्न्यूनो नास्ति, अतो मयि कृपां विधाय युवां मिलतम्, यथैष भगवान् कृताब्दिकतपोत्रतं पारयेत । अहमपि सत्पात्रदानविधानेन भवाब्धेरात्मानं तारयामि, इति श्रुत्वा तावमिलताम् । तदनु भगवदञ्जलौ श्रेयांसः शुद्धभावेनेक्षुरसमभिधातुं लग्नः । तद्धारा वर्धमानाऽपि तबिन्दुरेकोऽपि भूमौ नापतत्, पाणिप्रेतिग्राहिलब्धिमत्वात् । इत्थं भगवानृषभः प्रथमं वार्षिकतप इक्षुरसेन पारयामास । तदवसरे गन्धोदककुसुमवृष्टिः १, वसुधारावृष्टिः २, चेलोत्क्षेपः ३, नभोमण्डले देवदुन्दुभीनादः ४, व्योम्नि 'अहोदानमहोदानम् ' इत्युद्घोषः ५, इति दिव्यानां पञ्चकमाविर्बभूव | अमुना महादानेन श्रेयांसो मोक्षलक्षणं शाश्वतं फलमर्जितवान्, कारितवाँश्च तत्र पारणास्थले रत्नमयं पीठम्, पप्रथे च सा वैशाखशुक्लातृतीयाऽक्षयत्वेन । प्रशशंसुश्च लोकाः - श्री ऋषभ इव पात्रम्, इक्षुरस इव प्रासुक आहारः, श्रेयांस इव भाग्यशाली लाभयिता, सर्वमेतन्महापुण्येनैव घटितुमर्हति ।
१०१ श्रेयांसेन लोकान्प्रति निजाष्टभवकथनम्-
तदवसरे श्रेयांसो लोकानेवमवदत् - भो लोकाः ! सद्गतिलिप्सवो भावुका नराः साधुभ्य एवं प्रासुकमाहारं ददन्ते । लोका ऊचिरे - त्वया कथमेतदवेदि ?, श्रेयांसोऽजल्पत्-श्रुयताम् - ममाऽमुना भगवज्जीवेन सार्धमष्टौ भवा, अजायन्त । यथा - पुराऽस्य प्रभोर्जीवो ललिताङ्गदेव आसीत्, अहन्तु तस्य स्वयम्प्रभाख्या देवी खल्वासम् । द्वितीये भवे भगवान् वज्रन्धरराजा बभूव, अहं तदीया श्रीमती राज्ञी जाता । तृतीये जन्मनि द्वावपि युगलिको जज्ञाते । चतुर्थे भवे सखायौ देवा
१ यदञ्जलौ सकलोदधिवारीणि मायुर्विन्दुमात्रमपि नो निर्गच्छेत् स पाणिप्रतिप्रादिलब्धिमानुच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org