________________
( २३६ )
श्री कल्पसूत्रार्थप्रबोधिनी.
वते भिक्षां दातुमुदयच्छत् । भगवानपि तज्जिघृक्षया हस्तौ प्रासीसरत् । १०० प्रभोर्भिक्षादानकालिकमिथः कर संवादः -
अथ प्रभोदक्षिणवाकरौ भिक्षाग्रहणवेलायां मिथो व्यवदताम् । यथा— दक्षिणकरो जगौ —रे वाम ! खल्वस्ति सामुद्रिको तच्छत्रचामरमीनाङ्कुशयवचक्रादिशु भव्य अकरेखाङ्कितो, धीधनराज्यसौभाग्ययशःपुत्रा दिसूचकस देखाऽञ्चितः पाणिग्रहणराज्याभिषेक विदेशगमनाद्युत्सवेषु तिलककरणेऽधिकृतः, अनेकसुन्दराङ्गनाः करग्राहं पुंसामर्धाङ्गिनीः सम्पादयितुं पटीयान् बाल्ये च सुरसञ्चारितसुधामयाङ्गष्टनिपानेन तीर्थपतेरनन्तशक्तिसम्पादकः, श्रीमतीर्थकृता वार्षिकदानं दापयित्वा त्रिभुवनजनदारिद्र्यवारकः, जलादिपान - देवार्चन - कलादिशिक्षण- ग्रहादिस्थापन - मालादिविरचन - शान्तिकर्मादिप्रशस्तकृत्यविधानाऽग्रेसरः । इत्थं सर्वतः श्रेयान् भूखा कथमिदानीमधोभवितुं प्रभवाणि, अतस्त्वमेव भिक्षां ग्रहीतुमर्हसि; नाऽहम् ।
"
वामोऽवदत्-रे पापिष्ठ ! स्वेनैव स्वं वर्णयन्मनागपि किं न त्रपसे ?, यतः --- सन्तोऽपि गुणवन्त आत्मानं स्तुवन्तः सत्सु न शोभन्ते । सन्तो गुणास्तु कस्तूरिकामोद इव सद्रत्नानां तेज इव मणीनां निर्विषतेव स्वत एव विकसन्ति । अतस्तवैतत्स्वप्रशंसनं मातुरग्रे मातुलगुणकीर्त्तनवन्मुचैव जाने । रे दुष्ट ! देवचकलीप्रनुखविहगानां खराणाञ्च मय्येव जातं रुतं प्रयातुः शुभं सूचयते । क्रोष्टुरपि निशि प्रथमे यामे मय्येव विहितो रो गन्तॄणां शुभावहो जायते, किञ्च ममस्वरे ( चन्द्रनाड्यां) यत्प्रारभ्यते कार्यं तन्नैयत्येन सिध्यत्येव । इत्यादिविविधकार्यसाधकत्वादहमेवोत्कृष्टोऽस्मि खन्तु पापीयानुदरम्भरश्चासि यन्क्षुधितं मां लघुबन्धुमप्यनाहूय किञ्चिदष्यदददेकाक्येव सदा सर्वमनासि, अतस्त्वमेव भिक्षस्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org