________________
अष्टमं व्याख्यानम् ।
(२३५) कश्चिदश्वान्, रथान् , कश्चित्पूर्णस्थालं डुढौके, अन्नन्तु कोऽपि नाऽदात् । इत्थं वर्ष यावन्निराहारो वर्तमानोऽपि प्रभुर्मनागपि न मम्लौ । सुखेनैव विहरमाणः क्रमेण गजपुरमाययौ । तत्र च बाहुबलिनः सूनुः सोमप्रभो राजा विचकास्ति । तस्य श्रेयांसकुमारो यौवराज्ये तिष्ठति । स हि तस्यामेव यामिन्यां स्वप्नमदर्शत् -- यदहं सुधापूर्णकलशैम्बनतां नीतं मेरुगिरिं प्रक्षाल्य समुज्ज्वलं कृत्वा प्रादिद्युतम् ।' सोमप्रभो. राजा तु ' यदेकं पुमांसंशत्रुभिः परिगृहीतं श्रेयांसकुमारोऽमूमुचत् ' इति स्वप्नं ददर्श। सुबुद्धिनामा महेभ्यस्तु 'भानोः पतन्तीं सहस्रकिरणावली श्रेयांसः पुनः सूर्य एवाऽतिष्ठेिपत्' इति स्वप्नमैक्षत । जाते च प्रभाते ते त्रयोऽपि नृपसदसि मिलित्वा । स्व स्व स्वप्नमूचुः । तदा नृपादिभिः सर्वैरमुना स्वप्नेन श्रेयांसः किमपि विशिष्टं लाभं लप्स्यते इति निश्चितम् । ततो जाते मध्याह्ने श्रीऋषभदेवो गोचर्य प्रतिगृहं परिभ्राम्यन् प्रागिव लोकैर्दीयमानं वस्त्राऽऽभरणादिकमगृह्णन् ‘भगवानेष किमपि नैव लाति' इति जनकोलाहले प्रसृते गवाक्षस्थेन श्रेयांसकुमारेण भगवन्तमालोक्य 'पुरा मया कापीदृशं नेपथ्यमैक्षि ' इत्यूहापोहं विदधानो जातिस्मृतिमलब्ध । तया च प्रत्यक्षीचक्रे निजप्राक्तनम् । तथा. हि-अहं पूर्वस्मिन् भवे भगवतोऽस्य सारथिरभूवम् । अग्राहि चामुना सहैव संयमः, तत्राऽऽख्यद्वज्रसेनतीर्थाधिपतिः--यदेष वजनाभराजर्षिर्भरतक्षेत्रे प्रथमस्तीर्थङ्करो जनिष्यते । स एव तीर्थकर्ता देवाधिदेवो भिक्षार्थं भ्रामन्नत्रावलोक्यत इति विदन् गवाक्षानीचैरुत्तीर्य तत्काले च केनापि पुंसाऽऽनीतप्रधानमिष्टतरेक्षुरसपूर्णकुम्भसमूहप्राभृतमादाय, यथाविधि भगवन्तमभिवन्द्य जगाद-भगवन् ! साधुदानं कोऽप्यधुना न वेत्ति, तत एव तत्रभवतां प्रासुकाहारदौलभ्यमियन्तं समयमभूत् । अतो मम सदनमागत्य ‘मय्यनुकम्पनं विधेहि, निर्दोषमाहारं गृहा. ण' इत्थमाचक्षाणः श्रेयांस इक्षुरसपूर्णाऽष्टोत्तरशतकुम्भानादाय भग
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only