________________
( २३४ )
श्री कल्पसूत्रार्थप्रबोधिनी.
लानि परिषिच्य, सुगन्धिकुसुमानि विकीर्य, प्रभुशरीरोपविष्टदंशादिकमपनीयमानौ सदा खड्गधरौ भगवता सह विचेरतुः । एकदा भगवद्वन्दनायै समायातो धरणेन्द्रस्ताववादीत् -' एष भगवान् संसारमत्याक्षीत्, एनं मा याचिषाताम् । भरतमेव गत्वा याचेयाथाम् |' ताभ्यामुक्तम् भगवन्तं विना कमप्यन्यं नैव नाथावः । इत्थं तयोर्वचः श्रुत्वा धरणेन्द्रः प्रभोरास्यकमलं प्रविश्य ताभ्यामष्टचत्वारिंशत्सहस्रं सिद्धविद्या अदात्, तासामधिष्ठायिका गौरीगान्धारी रोहिणीप्रमुखाः षोडशदेवीश्च ददौ । ततः प्रोक्तमिन्द्रेण - ' एताभिः सिद्धविद्याभिर्विद्याधरर्द्धिमापन्नौ भव न्तौ सपरिवारौ वैताढ्य गिरेर्दक्षिणोत्तरश्रेण्यां गौरेयगान्धारप्रमुखानष्टौ देशान्, रथनूपुरचक्रवालादिपञ्चाशन्नगराणि, उत्तरश्रेण्याञ्च पण्डकवंशा लयप्रभृत्यष्टनिकायान् गगनवल्लभप्रभृतिषष्टिनगराणि निवास्य राज्यं कुरुतम् । युवां कदाचिदपि केवलिनो जिनेशप्रतिमायाश्चरमशरीरिणः प्रतिमामापन्नस्य साधोश्चेति चतुर्णामाशातनां मा कृषाताम् । अधिमार्ग स्थितानामेतेषां दर्शन वन्दनपूजनादि सेवामकृत्वा ऽग्रे मा गमताम्, परस्त्रियं वा मा भुक्षायाम्, अन्यथा सर्वाश्चैता विद्या युवां हास्यन्ति' इति शिक्षां रत्नभित्तौ विलिख्य धरणेन्द्रः स्वस्थानमयासीत् । ततो विद्याधराणां जातिभेदं षोडशधा संस्थाप्य दक्षिणश्रेण्या राज्यं नमिरुत्तरश्रेया राज्यञ्च विनमिरकरोत् ।
६६ श्रेयांसगृहे भगवतो वार्षिकतपः पारणम्
अथ प्रभुः श्रीऋषभजिनः पुराकृताऽशुभकर्मोदयाद्वर्षपर्यन्तमाहारं नो लेभे । यत्र यत्र याति तत्र सर्वत्र महाजना महीयानिति मत्वा कश्चिद्वसनानि, कोऽप्याभरणानि, कञ्चनमणिमुक्तादिना भृतं स्थालम्, कश्चिदतिरूपवतीं युवतिं सर्वाभरणविभूषितां कन्याम्, कश्चिद्धस्तिनं,
१ किरणावयुक्तमष्टचत्वारिंशच्छत कथनमयुक्तमावश्यकवृत्तौ तावत्सहस्रस्यैवोकेरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org