________________
अष्टमं व्याख्यामम् ।
(२३३) रुषैः सार्धं प्रवज्य, शक्रदत्तमेकं देवदूष्यवस्त्रमादाय भगवान्ननगारत्वमापेदे । ततो घोगभिग्रहधारी प्रभुः परिषहोपसर्गान् सहमानो विचचार । यद्यपि भगवतस्तदानीं कृतषष्ठतपः पारणं चिकीर्षितमासीत् , तथापि तत्र समये सुपात्रदानविधिः सर्वैरज्ञात एवाऽऽसीत् । कीदृशः साधुः ?, का च भिक्षेति नाममात्रमपि केनापि नाऽश्रावि, अतः क्वापि कोऽपि भगवतेऽन्नं नाऽदात् । ततस्ते चतुःसहस्रश्रमणाः क्षुधया परिपीडिता भगवन्तमाहारोपायमपृच्छन् । भगवाँस्तु मौनिवाकिमपि नोचे। ततः कच्छमहाकच्छौ पप्रच्छुः । तावूचाते नैतदावां जानीवः । तदा सर्वे चिन्तातुरा दध्युः-' इदानीमाहारमन्तरा स्थातुं नैव शक्नुमः, चेदुज्झित्वा संयमं गृहं जामस्तर्हि लोका निन्दिष्यन्त्युपहसिष्यन्तितरामतोऽत्रैव वने वासः श्रेयस्करो भविष्यति, इत्यवधार्य गङ्गादक्षिणतटे जटा. धरास्तापसा जज्ञिरे । वृक्षत्वचं परिदधुः । तरूणामधः पतितानि पनि, फलानि, पुष्पाणि चाऽश्नन्ति स्म । इत्थं जीवितं धरन्तः श्रीऋषभदेवमहर्निशं सस्मरुः । १८ नमिविनम्यो राज्यदानम्
पुरा भगवान् सर्वेभ्यः सूनुभ्यः पृथक् पृथक् राज्यादिप्रदानावसरे पुत्रीकृतयोरपि नमिविनम्योर्विदेशगतत्वाकिमपि नाऽदात् । पश्चादायातौ तौ प्रभोर्दीक्षां श्रुत्वा भरतमप्राष्टाम्-यथा भवद्भ्यो राज्यमदात्प्रभुस्तथा नौ दत्तं नवेति ? । भरतोऽवक्-प्रभुणा नाऽदायि, पर. महमेव वां ददामि राज्यम् । ताववोचताम्-त्वद्दत्तं नैव लास्यावः । भरतेनोक्तमेवं तर्हि भगवानेव जानातु । ततस्तौ भगवदन्तिकमागत्य तदीयपदपङ्केरुहौ जुषमाणौ भगवन्तं राज्यं ययाचाते । भगवाँस्तु शृण्वन्नप्यसंसारित्वान्मानमेव भेजे । तथापि राज्यार्थिनौ तौ यत्र यत्र भगवाँस्तिष्ठति तत्र तत्र भूभागं परिमार्य, कण्टकादीनपसार्य, सुरभिज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org