________________
( २३२ )
श्रीकक्पसूत्रार्थप्रबोधिनी.
"
जरिष्यन्तीति प्रभूपदिष्टोपायं श्रुखा ते युग्मजा आगत्य पृथगग्निं प्रज्वाल्य शाल्याद्यन्नानि तत्राऽक्षिपन् । सोऽग्निः क्षिप्तानि तानि भस्मसाच्चकुः । तदालोक्य तेऽजल्पन्-अहो ! अयमग्निः स्वयमेव पापात्मा वेताल इव क्षुधातुरः सर्वं भुङ्क्ते, नः किमपि न यच्छतीति भगवन्तमाचचक्षिरे । प्रभुरूचे - अहमचिराद् गजारूढ आगच्छामि । भवद्भिरेकं मृत्पिण्डं मे दातव्यं तदुपायं करिष्यामि । समायाते गजारूढे प्रभौ ते तद्धस्ते मृत्पिण्डं ददुः । प्रभुरपि हण्डिकाकुण्डिकाघटाद्यनेकविधमृण्मय पात्राणि निर्माय तन्निर्माणयुक्तिञ्च तानदर्शयत् । ततस्ते युगलिका अपि भगवदुपदिष्टयुक्त्याऽन्यान्यपि नानाविधानि पात्राणि निमय निर्माय सर्वत्र व्यस्तृषत। ततस्तेषु पात्रेष्वग्निपाचितानि शाल्यादौन्यन्नानि भुक्तानि तेषां जीर्णानि भवितुं लग्नानि बलपुष्टिकराणि च जातानि । इत्थमादौ कुम्भकारशिल्पं प्रदर्य लोहकार - चित्रकार - तन्तुवाय- नापितानामपि चत्वारि शिल्पानि दर्शितवान् । तदनु पञ्चानामेषामेकैकस्य विंशत्या भेदेन शतं शिल्पं वितेनुराचार्याः ।
९७ श्रीऋषभदेवस्य भगवतो दीक्षाऽऽदानम् -
अथ लोकान्तिकदेवैरभ्यर्थितो वार्षिकदानं ददानो भरतायाऽयोध्याया ( विनीताया ), बाहुबलिने तक्षशिलायाः, शेषपुत्रेभ्योऽङ्गत्रङ्गादीनां देशानां राज्यं प्रदाय, गोत्रियेभ्यो धनानि विभज्य, प्रभुश्चैत्रकृष्णाष्टम्यां सुदर्शनाख्यशिबिकायां सुखासीनः सुरासुरनरश्रेण्याऽनुगम्यमानमार्गोविनीतानगर्या मध्यपथेन निर्गच्छन् सिद्धार्थवनोद्यानेऽशोकतरोस्तले स्थापितयानादवतीर्य, स्वयमेव वसनाम्याभरणानि च समुचार्य, चतुर्भिर्मुष्टिभिर्लोचे विहिते शक्रप्रार्थनया कनककलशोपरि धृतामिन्दीवरमालामिव कनकवर्णयोः स्कन्धयोः सुषमां दधानां शिखां मुक्त्वा, कृत्वा च निर्जलं तपः षष्ठम्, उत्तराषाढा नक्षत्रे चन्द्रयोगमुपगते उम्र - भोग - राजन्य-क्षत्रियकुलोद्भूत कच्छ महाकच्छादिचतुः सहस्रपु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org