________________
५२ चिकुरबन्धः ५३ शालिखण्डनम्
५४ मुखमण्डनम्
५५ कथाकथनम्
५६ कुसुमग्रन्धनम्
अष्टमं व्याख्यानम् ।
Jain Education International
५७ वरवेषः
५८ सर्वभाषाज्ञानम् ५६ वाणिज्यम्
६० भोज्यम् ६१ अभिधानपरिज्ञानम्
६६ भरतादिविवाहो, भाण्डनिर्माणविधिश्च-
अथ भरतेन सह जातां ब्राह्मीं बाहुबलिना, बाहुबलिना सहजां सुन्दरीञ्च भरतेन सहोद्वाहितवान् प्रभुः । अमुना कृत्येन यौगलिकीं पद्धतिमत्याजयत् । अथ कालपरिवर्त्तनेन तत्र कल्पद्रुमाणां यथेच्छफलदानाशक्तत्वे ये - इक्ष्वाकुवंशीयास्ते - इक्षुभोजिनो बभूवुः, इतरे तु पत्रपुष्पफलाशिनो जज्ञिरे । भुक्तानि च तानि नैव जीर्यन्ते स्म । ततस्ते नानाविधमौदर्यं दुःखमनुभवितुमलगन् । तदर्दितास्ते भगवदन्तिकमागत्य विज्ञपयाञ्चक्रिरे - स्वामिन्! यद्भुज्यते तदस्माकं चिरेणापि नो जीर्यति, तेन सर्वेषामुदरे महती पीडा समुत्पद्यते, किमधिकमल्पाशनेनापि समेषामुदरं श्वयथुमधिगच्छति, अतस्तदुपायं ब्रूहि ? | भगवानाख्यत् - भोः ! तदन्नं पाणिना मर्दयित्वा मुखमारुतेन निस्तुषीकृत्य भुज्यताम् । ततस्ते तथैव भोक्तुमारेभिरे, तथापि भुक्तमन्नमजीर्णं पश्यन्तः प्रागिव दुःखीभवन्तः पुनर्भगवन्तमागत्य जगदुः । पुनर्भगवदुपदेशात्पत्रपुटकेषु जलेन किन्नांस्तण्डुलादीन् बुभुजिरे । तदपि तान्यजीर्णानि पश्यन्तः कियन्तमपि कालं मुष्टावअलौ च क्लेदयित्वा तयोरेव निभाय, भुक्तेष्वन्नेष्वजीर्यत्सु पुनः कक्षासु हृत्सु च स्विन्नान्यन्नानि भुक्त्वा पि जीर्णतां नैवाऽलभन्त । अत्राऽवसरे वने परस्परद्रुम संघर्षान्नव मुत्थितं ज्वलज्ज्वालाजालं तृणपुत्रं दहन्तमग्निमालोक्याऽभिनवरत्नधिया प्रसारितकरा दह्यमाना अतित्रस्तास्ते युगलिकास्तूर्णमागत्य भगवन्तं न्यवेदयन् । भगवाँश्चाग्नेः प्रादुर्भावं विदित्वा जगाद - भोः ! अग्निरुत्पेदे, भवन्तस्तस्मिँस्तण्डुलादि पाचं पाचं भुङ्गध्वम् । इमानि पक्वान्यन्नानि
( २३१ )
६२ आभरणपरिधानम् ६३ अन्त्याक्षरिका
६४ प्रश्नप्रहेलिका
For Private & Personal Use Only
www.jainelibrary.org