________________
ज्योतिषसिद्धान्तसंग्रहे
कथं मही कियन्माना
किमाकारा किमाश्रया ॥ ४ ॥ कथं नगसमुद्रैश्च वेष्टिता मुनिसत्तम । तस्यां विभागः कति च कुत्र पातालभूमयः ॥ ५ ॥ नक्षत्रग्रहकक्षाश्च स्थिताः केन क्रमेण च । कथं पर्येति भगवान् भानुर्भूमितमोऽन्तकृत् ॥ ६ ॥ किमर्थं मर्त्यलोके च नाडीषष्ट्यात्मकं दिनम् । पितृलोके दिनं चान्द्रमासेनापि कथं मुने ॥ ७ ॥ भानोर्भगणपूर्त्या च खर्लोकानां दिनं कथम् । मिथो देवासुराणां च कथं वाममहर्निशम् ॥ ८ ॥ याम्यगोले दिनं खल्पमुदग्गोले दिनं महत् । तदेव भिन्नदेशे च हीनाधिक्यं च तत् कथम् ॥१ वर्धते चीयते चन्द्रः कथं वा मुनिसत्तम । कथं तीक्षण करो ग्रीष्मे रविर्हेमन्त केऽन्यथा ॥ १० ॥ एतदन्यच्च यत्किञ्चित् कारणां कथ्यतां मुने । विचार्य सर्व ब्रह्मर्षे सर्वदर्शिन् कृपां कुरु ॥ ११ ॥
श्रीवसिष्ठ उवाच ।
साधु पृष्टं महाभाग ज्योतिषां कारणं महत् । विस्तरेण प्रवक्ष्यामि श्टणुष्वैकाग्रमानसः ॥ १२ ॥ यत्र ब्रह्म पर साक्षादव्यक्त निर्गुणं चितिः । वासुदेवः स पुरुषः पञ्चविंशत्परोऽव्ययः ॥ १३ ॥
Aho! Shrutgyanam