Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 233
________________ पञ्चमोऽध्यायः । पितृभुक्तिविहीनानामवं वा सर्वलम्बनम् । स्थिरीकृता दृग्गतिज्या सप्ताष्टाङ्कहताऽपि वा ॥ ५२ ॥ अथ च्छेदार्थमाच्छेदद्यं खाष्टमेन स्थिरीकृतम् । यदोदयज्याप्रभवो विना वाहुज्यया मुने ॥ ५३ ॥ मेषलग्नान्तरक्षेत्रज्यातो वा येकतः परम् । वर्गयोरुक्तह्क्क्षेप एष मार्गः सदा न सत् ॥ ५४ ॥ क्वचित् सन्नपि तत्रैतन्न क्वचिद्राऽपि सन् किल । हक्क्षेपत्रिभजा चेत् स्यान्मध्यभुक्त्यन्तरस्य च ॥ ५५ ॥ अर्क विध्वोः पञ्चदश नतिर्वा चितिर्मुने । दृक्क्षेपसप्तत्यंशो वाऽवनतिर्ग्रहणं ततः ॥ ५६ ॥ नतिरल्यान्तरावरान्त्य मार्गाभ्यां न हि दोषदा । दृश्यते द्वादशांशोऽपि स स्वच्छाग्रह एव हि ॥ ५७ ॥ इन्दोलितात्रयं वार्कस्योष्णत्वाद्गतिरत्र न । ग्रहणं नामभेदो हि दुर्लेख्यमपि पुण्यदम् ॥ ५८ ॥ तेनान्तरात्मकग्रासो ग्राह्यं चेन्न समो यदि । सर्वग्रासोऽपि तिग्मांशोः क्वचिद्देशान्तरं मृत ॥ ५८ ॥ अके इन्तरसङ्गावात् स्पर्शमात्रोऽपि नास्ति हि । पर्वाधिपतिसंख्यासु पातालग्रहणं हि तत् ॥ ६० ॥ स्नानादिषु तु न ग्राह्यं शुभेषु ग्रहयुद्धवत् । ग्रहणं ग्रहयुद्धं वा तत्तदह्निफलप्रदम् ॥ ६१ ॥ छन्नं ग्राह्याधिकं चान्त्याहिमर्दग्रहणं च तत् । Aho! Shrutgyanam ७५

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240