Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
पष्टोऽध्याय: । विन्यस्तं विलिखेचापं विक्षेपत्रितयाग्रगम् ॥ ६ ॥ इष्टच्छन्नीनमानैक्यदलसंमितयाऽऽस्सदम् । शलाकया मध्यबिन्दोर्जात्वा चापे ततो लिखेत् ॥१०॥ ग्राहकार्धन तहिम्बं स्थानं चेत् स्पर्शमोक्षयोः । निमोलनोन्मीलनयोविन्याद्ग्रहणमौसितम् ॥ ११ ॥ अध्वान्तत्वादिधोः सूर्य ग्रहणं कृष्णमेव तत् । ध्वान्तं छादकमिन्दोर्यदिशेषोऽयं विधोस्ततः ॥ १२ ॥ धनं कृष्णं क्रमात् कृष्णं कृष्णं ताम्वं विनिर्दिशत् । किञ्चिदनाधिकैः पादैछच्चं कपिलमेव तत् ॥ १३ ॥ नदेयं यस्य कस्यापि रहस्यं शास्त्रमुत्तमम् । अर्थ लुब्धाय मूर्खाय साहङ्काराय पापिने ॥ १४ ॥ गुरुभक्तिविहीनाय पुत्रायापि वदेन हि ।। एतद्देयं मुशिष्याय मुने वत्सरवासिने ॥ १५॥ इति श्रीशाकल्यसंहितायां ब्रह्मानारदसंवादे बह्मसिदान्ते
हितीये प्रष्णे षष्ठोऽध्यायः ।।
समाप्तोऽयं ग्रन्थः ।
Aho! Shrutgyanam

Page Navigation
1 ... 235 236 237 238 239 240