Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३) निर्विकल्पकस्येव प्रमाणस्वमिति मन्यमानानां चार्वाकाणाञ्च कदाग्रहग्रहं निग्रहीतुं संशयविपर्ययानध्यवसायानां स्वसमयप्रसिद्धदर्शनस्य चप्रामाण्यमपाकर्तुं गृहीतस्वपरव्यवसायिविशेषणज्ञानरूपप्रमाणाद्भवति॥अतस्तदेवादो निरूप्यते।तत्प्रमाणं द्विविधम्, प्रत्यक्षं परोक्षश्चेति।तत्रादिमं द्विविधम्, सांव्यवहारिकपारमार्थिकभेदात्। उदीचीनश्च स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदात् पञ्चधेति। ननुप्रत्यक्षमेकमेव प्रमाणमिति चार्वाकरभिहितत्वात् तदेवानुमानसहितं द्विविधमेवेति बौद्धवैशेषिकसम्मतत्वादेतद्विविधमप्यागमेन सह त्रिविधमेवेतिः कपिलोक्तत्वादेतन्त्रितयमप्युपमानेन सहितं चतुर्विधमित्यक्षपादोक्तेस्तदेतच्चतुष्कमप्यर्थापत्त्या सह पञ्चधेति प्रभाकरप्रतिपादनात् पञ्चापि तान्यनुपलब्ध्या सह षडेवेति भट्टवेदान्तिनोरुक्तेश्चैवं सम्भवैतिह्यप्रतिभादिस्वभावानां प्रभूतानामपि. सत्त्वात्, तथा चाभ्यधिष्महि“प्रत्यक्षं मानमेकन्तु, चार्वाकैरभिधीयते। अनुमानेन युक्तन्तद्, द्विधा बौद्धैर्विवेचितम् ॥१॥ तदेवं द्विविधं प्रोक्तम् , कणभक्षानुयायिभिः । आगमेनान्वितं तत्तु, त्रिधा कपिलसम्मतम् ॥२॥ त्रितयन्तूपमानेना-न्वितं मानं चतुर्विधम्। अक्षपादेन तत्प्रोक्तम्, स्वमतालम्बिनःप्रति ॥३॥
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54