Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar (९) • अत एव चसामान्यावबोधात्मकस्य दर्शनस्य चक्षुदर्शनाचक्षुर्दर्शने इति भेदो सङ्गच्छते।तथा हि बाह्येन्द्रियस्य चक्षुष एवाप्राप्तकारित्वात्तदर्शनमन्यन्नान्यस्या ननु सामान्यत इन्द्रियानिन्द्रियजन्य सामान्यावबोधास्मकं व्यावहारिकमेकमेव दर्शनं स्यात् किं चक्षुर्दर्शनमचक्षुर्दर्शनमिति विभागेनेति चेत्, न,अवान्तरविशेषयोतनेन शिष्यमतिव्युत्पत्तिफलत्वात् । न चैवं सतीन्द्रियदर्शनमनिन्द्रियदर्शनमित्येव वाच्यम्, न तु चक्षुर्दर्शनमचक्षुदर्शन मिति, अन्यथान्येन्द्रियजान्यपि तानि चक्षुदर्शनमिव भेदमापद्येरन्निति वाच्यम्। वस्तूनां सामान्यविशेषोभयात्मकत्वात् तत्कीर्तनमपि सामान्य विशेषोभयरूपेणैवेतिशिष्टसमयपरिपालनाय चक्षुर्दर्शनमिति विशेषेणाचक्षुदर्शनमिति च सामान्येन दर्शननिर्देशात् । तथा चोक्तं नवाङ्गोटोकाकर्तृभिः पूज्यपादश्रीमदभयदेवसूरिभिः प्रज्ञप्त्याख्यपञ्चमाङ्गस्य प्र. थमशतकतृतीयोदेशकटीकायाम्, “ सामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशःक्वचिच्च सामान्यतः,तत्रचक्षुर्दर्शनमिति विशेषतोऽचक्षुर्दर्शनमिति च सामान्यतः” इत्यादि । ननु श्रोत्रदर्शनमश्रोत्रदनिमित्यादिना प्रकारान्तरेणापि सामान्यविशेषाभ्यां तन्निर्देशसम्भव इति चेत्, सत्यम्। तथापि चक्षुषो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54