Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८) प्रदेशे द्वयोरण्वोर्वृत्तिरेव विरुद्धयते, तथा च कथमेकः हाभ्यां पूर्ण इत्यादीति चेत्, न, विहितोत्तरत्वात्, अत एव च तन्न्यायस्याप्रामाण्यं, कथमन्यथा तत्प्रामाण्यमङ्गीकुर्वतां यौगानामवयविनि पाकः । न चा. वयविनाऽवष्टब्धेषु अवयवेषु पाको न सम्भवति, किन्तु वह्निसंयोगेनावयवेषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः, पुनश्च पक्वपरमाणुसंयोगाढ्यणुकादिक्रमेण महावयविपर्यन्तमुत्पत्तिः, तेजसामतिशयितवेगवशात् पूर्वव्यूहनाशो झटितिव्यूहान्तरोत्पत्तिश्चेति अतःसम्भाव्य. ते परमाणावेव पाक इति वाच्यम्,अवयविनां सच्छिद्रत्वादह्वेः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेष्वपि पाकस्याविरुद्धत्वात्,न च मूर्तयोः समानदेशताविरोध इति वाच्यम्, अनन्तावयवितन्नाशकल्पने गौरवात्सोऽयं घट इति प्रत्यभिज्ञाप्रतीतेश्च न्यायस्याप्रामाणिकत्वात्। वस्तुतस्तु आकाशस्यावगाहस्वभावत्वान्न किश्चिदपि विरुद्धयते, यथैकस्यापि परोपकारिण उपकार्यकसद्भावे एकस्यैवोपकारकत्वं द्वयसत्त्वे द्वयोरपि शतसत्त्वे शतस्य सहस्रसत्त्वे सहस्रस्यापि, यथा वा एकस्मिन् पारदकर्षके मणिमन्त्रौषध्यादीनामचिन्त्यः प्र. भाव इति न्यायात् औषधिविशेषप्रभावतः शतमपि स्वर्णकर्षकाणि मायात् न पुनर्मानावगाहनयोर्वृद्धिः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54