Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३७) णकर्बुरादिभेदभिन्नानां गवांप्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवानित्येष दृष्टान्तः, अयमत्रोपनयः। इह गोपपतिकुचिकर्णकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्योऽव्यामोहाथै गोमण्डलसदृशं पुद्गलास्तिकायमेकहित्रिसङ्ख्यातासङ्ख्यातानन्तादिपरमा वौदारिकवैक्रियाहारकतैजसभाषादिवर्गणाविभागेन प्ररूपितवान् इत्यादीत्यलमतिप्रसङ्गेनाप्रस्तुतत्वाद् विशेषजिज्ञासुना चावश्यककर्मप्रकृतिकर्मग्रन्थादिवृत्तिभ्योऽवसेयमाशब्दशास्त्रविद्भिरपि वर्णानां स्थाननिरूपणप्रसङ्गे स्थानपदव्याख्यामिषेणशब्दोत्पत्तिप्रतिपादनद्वारातत्पौद्गलिकत्वमाख्यायि। यदुचुर्हेमसूरिपादाःस्वकृतसिद्धहेम शब्दानुशासने। 'यत्रपुद्गलस्कन्धस्य वर्णभावापत्तिस्तस्थानम्॥किञ्चाङ्लभूमिजैरपि प्रज्ञाशालिभिःशब्दस्यपौद्गलिकत्वं निरचायि, तथाहि शब्दः पौद्गलिक एव फोनोग्राफ्नामकयन्त्रेण संह्रियमाणत्वाद् बधिरकाचादिना च निरुध्यमानत्वादित्यादि । ननु शब्दनिमित्तानां कोष्ट्यवायूनामेव यन्त्रविशेषतोऽवष्टभ्याभिधारणं नतु शब्दानां, यतस्तेषामभिधारणेऽभ्युपगम्यमाने नानादिग्व्यवस्थितपुरुषश्रोत्राभिमुखानां वक्तृसाम्मुखीनयन्त्राभिधारणवद्विरुद्धदिग्व्यवस्थितयन्त्राभिधार
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54