Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संयुज्यन्त इति तादृशशब्दोत्पत्तेः सम्भवादिति चेत्, न, अदृष्टचरैतादृशकल्पनापेक्षया पोद्गलिकशब्दाभिधारणकल्पनायां लाघवात्, तथाहि स्त्रीपुंनपुंसकोञ्चरितशब्देषु वैजात्यन्तावदनुभूयमानं नापह्नोतुंशक्यते, नापि तन्न कस्यचिदपि कार्यतावच्छेदकमित्यभिधातुंयुक्तं, ‘था सति कार्यमात्रवृत्तिजातित्वं तस्य न स्यात्, स्वञ्च तलैजात्यावच्छिन्नं प्रति विलक्षणतत्तज्जातीयकण्ठतावादितत्तद्वायुसंयोग एव कारणं तावद्भवद्भिरभ्युपगन्तव्यं, नतु प्रयत्नादिकम् , यतस्समानेष्वपि प्रयत्नादिषु कस्यचित्पुंसः स्त्रीशब्दसदृशशब्ददर्शनात्, तत्तत्स्त्रीपुनपुंसककण्ठताल्वादिगतपरस्परविरुद्धनानावैजात्ययोगि च नैकं वस्तु भवितुमर्हति, साङ्कर्यस्य जातिबाधकताया भवद्भिरेवाभ्युपगमात्, कारणे जातिसाङ्कर्ये कार्येऽपि तत्तत्कार्यवैजात्यसाङ्कर्ये चित्ररूपवल्लौकिकशब्दविलक्षण एव शब्दो यत्नतः प्रादुःष्यान्न चैवम् , किञ्च न स्त्रीपुंनपुंसकानामेव परस्परं भेदात्तत्तज्जातीयोक्तशब्दभेदः, किन्तु स्त्रीणां पुंसां नपुंसकानामपि प्रत्येकशो मिथश्शब्दवैजात्यदर्शनादिति स्त्रीत्वादिततज्जात्यवान्तरवैजात्ययोगितत्तद्वयक्तीयकण्ठताल्वादिगतनानावैजात्ययोग्यपि तद्वस्त्वभ्युपगन्तव्यं यत्संयु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54