Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४१) च सिद्धः शब्दवर्गणाजन्यः शब्द इति॥ उक्तञ्च-विनयविजयोपाध्यायैः लोकप्रकाशे एकादशसर्गे ॥ "गन्धद्रव्यादिवद्वाता-नुकूल्येन प्रसर्पणात् ॥ तादृशद्रव्यवच्छोत्रो-पघातकतयापि च ॥१॥ ध्वने; पोद्गलिकत्वं स्या-द्यौक्तिकं यत्तु केचन ॥ मन्यन्ते व्योमगुणतां, तस्य तन्नोपयुज्यते ॥२॥ अस्य व्योमगुणत्वे तु, दूरासन्नस्थशब्दयोः॥ श्रवणे न विशेषः स्यात्, सर्वगं खलु यन्नमः ॥३॥
॥इति सिद्धं शब्दस्य द्रव्यत्वम् ॥ लब्ध्वा गुरूपदेशं, मतमधिगम्य च जिनेश्वरस्य तथा॥ जिनतत्त्वपरीक्षाया-माद्यो वर्गो न्यगादि मया ॥१॥ विरचय्यादिमवर्गे, समर्जितं यन्मया सुकृतिगम्यम् ॥ पुण्यं तेन लभन्तां, भव्याः सहोधिवररत्नम् ॥२॥ __ श्रीतपोगणनभोदिनमणीनां सकलशिष्टसमयसमाचारविचारोचितवचोविस्तरमरीचिविदलितनिखिलजनतामिध्यात्वतिमिराणां श्रीमद्भगवदहबदनारविन्दविनिर्गतागमग्रन्थादिविस्तीर्णश्रुतरत्नपारावारपारगतानां सुविशदसदाप्तागमायाधितगुरुपरम्परोपात्तोदात्तागमैदम्पर्याणां दुरन्तैकान्तवादमदमषीमलिनपरवादिबातविभेदनैकप्रमाणनयनिक्षेपानुयोगानुपमवाग्व्यतिकरोगतकेसरकेसरीणां सैद्धा
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54