Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३८) णमपि स्यान्न चैवं, तढायूनां तत्वे तेषां सम्मुखदिग्मात्रप्रसारिणां साम्मुखीनेनैव ग्रहणं देशान्तरीणशब्दोत्पत्तिस्तु शब्दादेव तज्जन्यात् कदम्बगोलकन्यायात् वीचितरङ्गन्यायाहा, किञ्च शब्दाभिधारणे प्रत्यक्षस्वभावानां तेषां तद्यत्रातिसन्निहितकर्णरुपलम्भोऽपि भवेत् अनध्यक्षस्वभावानां तेषां तथाल्वे न कदाचिदपि तदुपलम्भ इति, न च वायवभिधारणे पुनस्तादृशशब्दोपलम्भः कथं, पूर्वोत्पन्नानां तेषां चिर विनप्रत्यादिति वाच्यम्, कण्ठादिस्थाने काद्यक्षरप्रयोजको यादृशपरमाणुप्रचयसमुद्भूतोऽवयवी तादृशपरमाणुप्रचयसमुद्भूतावयविविशेषस्य यन्त्रेऽपि स्वीकारात्तेन सहाभिधृतवायुसंघटनतस्तत्रापि तादृशशब्दोत्पत्तेस्सम्भवात्, न च घकारोत्तराकारोत्तरटकारोत्तरात्वरूपस्य घटशब्दगतानुर्वीविशेषस्यावच्छिन्नं प्रति तत्तच्छब्दगतेष्टसाधनत्वादिज्ञानचिकीर्षादिजन्यप्रयत्नविशेष एव कारणमिति तदभावात्तादृशानुपूर्वीविशेषावच्छिन्नशब्दोद्भवः कथमिति वाच्यम्, प्रयत्नादीनां तत्तच्छब्दनिमित्तवायुविशेषप्रेरण एवोपक्षीणशक्तेस्तत्प्रेरितास्तु वायुविशेषा एव कण्ठताल्वादिस्थानेन सं. युक्तास्त एव कण्ठताल्वादिस्थानसजातीयद्रव्यैरत्रापि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54