Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७ ( इति वचनात् अस्तिकायः प्रदेशसङ्घात इत्यर्थः, आकाशञ्च तदस्तिकायश्चाकाशास्तिकायस्तेनाकाशास्तिकायेन, भदन्त इति परमगुर्वामन्त्रणं, जीवन्ति प्राणान्धारयन्तीति जीवास्तेषां जीवानां जीवाश्चेतनावन्तस्तद्विपरीता अजीवास्तेषामजीवानां, चः समुच्चये, किमिति स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मेण धर्मिज्ञानविषयिणीच्छा किमोऽर्थः प्रवर्त्तते, भगवानाह - 'गोयमा' इति कोमलामन्त्रणे गौतम, आकाशास्तिकायः जीवद्रव्याणां चाजीवद्रव्याणां च भाजनभूतः, अनेन इदमुक्तं भवति सत्यस्मिजीवादीनामवगाहः प्रवर्त्तते तस्यैव प्रनितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह - एगेण वि' इत्यादि, एकेन परमाण्वादिना, 'सेत्ति' असौ आकाशास्तिकायप्रदेश इति गम्यते, पूर्णो भृतः, तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः शतमपि मायादेकस्मिन्प्रदेशे, कोटिशतेनापि पूर्णोऽसावस्ति, एवं कोटिशतसहस्त्रमपि मायात् । ननु कथमेतदुच्यते यत्र एकोऽणुर्माति तत्र द्वौ शतं सहस्राण्यपि मायादिति चेत्, न, पुद्गलानां परिणामस्य विचित्रत्वात्, यथाऽपवरकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि प्रभापटलं तत्र माति यावच्छतमपि तेषां तत्र माति । ननु मूर्तयोः समानदेशविरुद्धत्वमिति न्यायात् एकत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54