Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं प्रवत्तंति, गोयमा, आगासत्थिकाएणं जीवदव्वाण य अजीवदव्वाण य. भायणभूए, एगेण वि से पुण्णे, दोहिं वि पुण्णे, सयं पि माएज्जा, कोडिसएणं वि पुण्णे, कोडिसहस्सं पि माएज्जा, अवगाहणालक्खणेणं आगासस्थिकाए" इत्यादि, अयमस्यालापकस्यार्थः, भगवान् गौतमस्वामी श्रुतकेवली चतुर्दशपूर्वविद्वादशाङ्गप्रणेता सर्वाक्षरसन्निपाती तीर्थकरभाषित मातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमो विवक्षितार्थपरिज्ञानसमन्वितोऽपि स्ववचसि शिव्यप्रत्यायनार्थ मणधरप्रश्नतीर्थकरनिर्वचनरूपत्वात् सू. त्रस्येति सूत्रणार्थ, नहि नामानाभोग-छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि, ज्ञानावरणप्रकृतिकर्म ॥१॥ इति न्यायाच्छद्मस्थस्यापि स्वस्यानाभोगसम्भवाहा भगवते श्रीमते महावीरस्वामिने काश्यपाय ज्ञातसू. नवे केवलालोकबलावलोकितलोकालोकार्थभावाय परमर्षये पप्रच्छ, आकाशास्तिकायः आङिति मर्यादया स्वस्वभावापरित्यागरूपतया काशन्ते स्वरूपेणावभासन्ते यस्मिन् व्यवस्थिता: पदार्थाः तदाकाशं, यदा त्वभिविधावाङ्, तदा आङिति सर्वभावाभिव्याप्त्या काशते इत्याकाशम्, अस्तयः प्रदेशाः, तेषां काय: सङ्घातः ___“गणकाए य निकाये खंधे वग्गे तहेव रासीय" १ गणः कायश्च निकायः स्कन्धो वर्गस्तथैव राशिश्च । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54