Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५) भवति" इति सिद्धान्तमुक्तावलीकृतच:कर्णशष्कुलीविवरावच्छिन्नेश्वरस्यैव श्रोत्रत्वम्" इति शिरोमणिकृन्मतं चापहस्तितम् । न चाकाशस्यान्यथानुपपत्त्या तद्गुणत्वकल्पनं, तथाहि शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत्, इति द्रव्यसमवेतत्वे सिद्धे शब्दो नस्पर्शवद्रध्यसमवेतः, न दिकालमनःसमवेतः, नात्मसमवेतः,अग्निसंयोगासमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत्, विशेषगुणत्वाद्रूपवत्, बहिरिन्द्रियग्राह्यत्वात् स्पर्शवदिति अनन्यसमवेतत्वाच्छब्दस्य गगनसमवेतत्वं परिशेषानुमानेन कल्प्यत इति वाच्यम् । प्रथमतृतीययोर्गुणत्वासिद्ध्या स्वरूपासिद्धेढितीयतुर्ययोश्चाप्रयोजकत्वात् । एतेन शब्दाधिकरण नवमं द्रव्यं गगननामकं सिद्धयतीति वचश्शब्दगुणकमाकाशमिति वचश्चाप्यपास्तम् । ननु तर्हि आकाशे प्रत्यक्षत्वप्रयोजकोद्भूतरूपाभावात् प्रत्यक्षत्वासम्भवेन किं मानमिति चेत्, अनुमानमेव, तथाहि द्रव्याणि साश्रयाणि द्रव्यत्ववत्त्वादित्यादि, न च भूतलादीनां घटाद्याधारत्वेनैवोपपत्तावलमन्यगवेषणयेति वाच्यम् । अदृश्यमानपरमाण्वाद्याधारतयैकस्यैव तस्य सिद्धेः । तथा चोक्तं प्रज्ञप्तिपश्चमानें त्रयोदशशतकचतुथोंदेशके “ आगासस्थिकारणं भंते जीवाणं अजीवाण य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54