Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२ ) देश इति शिष्टसमयात् सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासः इति न्यायाच्च यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, तथा पुद्गलप्रक्षेप इति सामान्यतः शब्दाणुपात इति च विशेषतो निर्देश इत्यस्यादुष्टत्वं सामान्यतो विशेषतो निर्देशनीयमिति विवेचितमस्माभिः श्रोत्रप्राप्यकारित्वस्थापनायाम्। अपि चौदारिकवर्गणापुद्गलप्रक्षेपे पुद्गलप्रक्षेपातिचारः भापावर्गणापुद्गलाणुपाते च शब्दाणुपातातिचार इत्यनयोर्भेदः, इति सिद्धं शब्दस्य द्रव्यसमुद्भूतत्वम् । तथा च पूर्वाचार्योक्तमनुमानमपि शब्दपौद्ग लिकस्वसिद्धौ प्रमाणम्, तथा हि शब्दः पौद्गलिक इन्द्रियार्थत्वाद्रूपादिवदित्यादि ॥ तथा चोक्तं स्थानाङ्गस्य जीवाभिगमाख्योपाङ्गे भगवद्भिः । "से' नूणं भंते सुब्भिसइपोग्गलाई दुब्भिसदत्ताए परिणमंति हंता गोयमा " इत्यादिना, इत्थं च शब्दस्य सिद्धे पौगलिकत्वे यद्बौद्वैर्द्वादशायतननिरूपणावसरे शब्दायतनाख्यमायतनमुपकल्पितं तदपि निरस्तम्, तस्याजीवतत्त्वप्रभेदरूपस्य पृथक्कल्पनानुचितत्वात् । यथा च तत्परिकल्पितानि द्वादशायतनानि तन्निरासप्रकारश्च द्वयमपित१ स नूनं भदन्त सुरभिशब्दपुद्गला दुर्गान्धिशब्दतया परिणमयि । भौतम | मन्ति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54