Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३३ ) प्रसङ्गे निरूपयिष्याम इति । वर्णितश्चाजीवतत्त्वे ऽन्तर्भावः सूत्रकृताख्यद्वितीयाङ्गटीकायां शीलाङ्काचार्यैरपि द्वादशे समवसरणाख्याध्ययने बौद्धनिरासावसरे "शब्दायतनं च पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन ग्रहएम्” इत्यादि, एवं च भाषास्वरूपमामूलं "भाष्यत इति भाषा तद्योग्यतया परिणामितनिसृष्टनिस्सृज्यमानद्रव्यसंहतिः " इत्यादि भगवतीद्वितीयशतकषष्ठो देशकटीकायामभयदेवसूरिभिः । तथा "वाग्येोगप्रयत्ननिस्सृष्टोऽनन्तानन्तप्रादेशिकपुद्गलस्कन्धप्रतिविशिष्टपरिणामः शब्दः पुद्गलद्रव्यसङ्घातभेदजन्मा ” इत्यादि तत्त्वावृत्तौ द्वितीयाध्याये सिद्धसेनगणिभिरपि सुष्ठु विवेचितम् ॥ अत एव च रूपिद्रव्यावगाहिनोवधिज्ञानस्य जघन्यविषयत्वं तैजसभाषान्तरालद्रव्याणां सम्भवति, तथोक्तमावश्यकनिर्युक्तौ तट्टीकायाञ्च, " 'तेयाभासादव्वाण अंतरे इत्थ लहइ पट्टवओत्ति" इत्थञ्च द्रव्यभाववाग्लक्षणमावश्यकवृहद्वृत्त्युक्तम् १ द्रव्ययोगलक्षणं चावश्यकसूत्रस्पर्शिक नियुक्तितट्टीको तमपि २ उपपद्यते । तथाहि " वच् भाषणे वचनमुच्यतेऽनयेति वाक्, सापि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्याः पुद्गला जीवप१ तेजोभापाद्रव्याणामन्तरम् अत्र लभते प्रस्थापक इति ।
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54