Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३० ) प्रत्यक्षाभावेऽपि सकलरूप्यरूपिद्रव्यपर्यायवेदिनां प्रत्यक्षादेव तत्सिद्धिः । इत्थं चाकाशं द्रव्यमेव नास्तीत्यभिदधतां नव्यनैयायिकानां वचोऽप्यपास्तम् । ननु शब्दस्य परमाणुसमूहत्वे तत्र रूपादीनां घट इवापत्तिरिति चेत्, न इष्टापत्तेः आश्रयस्य च सूक्ष्मत्वात्तदग्रहः, तथा चोक्तं भगवत्यां त्रयोदशशतकसप्तमोद्देशके "रूवी भंते भासा अरूवी भासा, गोयमा, रूवी भासा नो अरूवी भासत्ति" उक्तञ्च वर्गणानां वर्णादिचिन्ताधिकारे कर्म्मप्रकृतिवृत्त्योर्मलयगिरियशोविजयवाचकाभ्यामपि " तैजसप्रायोग्याद्याश्च वर्गणाः पञ्चवर्णाः पञ्चरसा द्विगन्धाश्च ज्ञातव्याः, स्पर्शचिन्तायान्तु चतुःस्पर्शाः
"3.
44
इत्यादि । ननु शब्दस्य द्रव्यत्वे श्रोत्रस्य प्राप्यकारीन्द्रियत्वेन चन्दनाग्न्यादिकृतौ त्वचोऽनुग्रहोपघातावि-वानुग्रहोपघातौ श्रोत्रस्य शब्दकृतौ स्यातामिति चेत्, दृश्यत एव श्रोत्रस्य शब्दकृतौ पाटवबाधिर्यलक्षणावनुग्रहोपघातावित्यादि विस्तरेण श्रोत्रप्राप्यकारित्वव्य-वस्थापनावसरे प्रागेव प्रतिपादितं तच्च मण्डूकप्लुत्या कुशाग्रीयया धियाऽवधार्यताम् । ननु शब्दस्य द्रव्यस-
For Private And Personal Use Only
१ रूपिणी भदन्त भाषा अरूपिणी भाषा । गौतम । रूपिणी: भाषा नो अरूपिणी भाषेति ।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54