Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४) सम्बन्धो न तु क्षित्यादीनां तथा । ननु कोऽयं समवायः। परस्परमेकीभावेनावस्थानं यथा पृथ्वीजलादिभिः सह रूपरसादीनामिति चेत्, न, शब्दस्याम्बरगुणत्वासिद्ध्या तेन सह ध्वनेर्लोलीभावेनावस्थानाप्रतीतेः। किश्च समवायस्य सम्बन्धत्वमप्यनुपपन्नमिस्यादि सिंहावलोकनेन विलोक्यताम् । अथाकाश उपलभ्यमानत्वात्तद्गुणता शब्दस्येत्यप्यपरिपेशलम् । एवं सति अर्कतुलकादीनामम्बर उपलभ्यमानत्वात तद्गुणत्वप्रसक्तिः। अथार्कतूलकादीनां परमार्थतो भूम्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि यत्पुनराकाशेऽवस्थानोपलम्भस्तद्वायुना सञ्चा. यमाणत्वात्, तथाहि यतो यतो वायुःसञ्चरति ततस्ततः शब्दोऽपि गच्छति ॥ उक्तञ्च प्रज्ञाकरगुप्तेन॥ यथा च प्रेर्यते तूल-माकाशे मातरिश्वना ॥ तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित्॥१॥
न च तथापि श्रोत्रग्राह्यत्वेन तदाश्रितत्वाच्छब्दस्व श्रोत्रस्य चाकाशरूपत्वात् तद्गुणः शब्द इति साम्प्रतम्। श्रोत्रस्य गगनात्मकत्वे गगनस्य सर्वत्राविशेषाद्वाधिर्याद्यभावप्रसङ्गात्। एतेन “आकाश एकएव सन्नपि उपाधेः कर्णशष्कुलीभेदाद्भिन्नं श्रोत्रात्मकं
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54