Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ ) मूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्त्तमेवेति, एवं शब्दोऽपि यथाकाशगुणस्तर्हि तस्यामूर्त्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्त्तताप्रसङ्गः तथा च भणितं शीलाङ्गाचार्यपादैः सूत्रकृताख्यद्वितीयाङ्गवृत्तौ " शब्दश्चाका - शस्य गुण एव न भवति तस्य पौगलिकत्वादाकाशस्य चामूर्त्तत्वात्" इत्यादि। न चेदं नीतिसङ्गतम्, अमूर्त्तत्वलक्षणायोगात् । तथाहि मूर्त्तिविरहो ह्यमूर्त्तता । नवभीष्टमेव तस्यामूर्त्तत्वमिति चेत्, न तत्र शब्दे स्पर्शवत्त्वेन मूर्त्ततायासिद्धत्वात् । तथाहि स्पर्शवन्तः शब्दाः तत्सम्पर्के उपघातदर्शनाल्लोष्ठुवत्, न चात्रासिद्विदोषदुष्टो हेतु:, यतस्तत्कालजन्मिनो बालस्य कर्णस्थानसन्निधौ गाढास्फालितझल्लर्यादिध्वनिभिः श्रोत्रस्फोटो दृश्यते, तथा चोक्तमावश्यकवृत्तौ मलयगिरिपूज्यैः " दृश्यते हि सद्योजातबालकानां कर्णदेशाभ्यर्ण गाढास्फालितझल्लरीझणत्कारश्रवणतः श्रवणस्फोटः” इत्यादि, न चेत्थं श्रवणस्फोटादिरूपोपघातत्त्वमस्पर्शवत्त्वे सति सम्भवति यथा नभसः, ततो विपक्षावृत्तित्वात् न व्यभिचारित्वमपि हेतोः । एवञ्चाभिघातादिनापि स्पर्शवत्त्वं शब्दस्य । तथा हि शब्दाः स्पर्शवन्तः अभिघाते गिरिगह्वरादिषु शब्दोत्थानात् उपलखण्डवत्, वादिप्रतिवादिनोरुभयोरपि सिद्धोऽयं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54