Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०) इत्यादिाअत एव "तस्मादयः शब्दोयं प्रति योग्यः स तेन गृह्यते नान्य” इति तत्त्वचिन्तामणिवचोऽपि सङ्गच्छते ॥ किञ्च महत्त्वाल्पत्वपरिमाणवत्त्वाच्छब्दस्य द्रव्यत्वम् । न च शब्देयत्ताया अप्रत्यक्षत्वेन तत्परिमाणासिद्धिः,वायाविव शब्दे तस्याप्रयोजकत्वात्। वस्तुतस्तु तस्य सूक्ष्मपरिणामपरिणतत्वेनास्मदादीनां प्रत्यक्षासम्भवेऽपि विश्ववेदिनां तत्सिद्धेः। न च तीव्रत्वमन्दत्वाभ्यां तदुपपत्तिः, शब्दगुणत्वासिद्धया तयोगुणगतजातित्वासिद्धेः, तीवत्वमन्दत्वाभ्यां महत्त्वाल्पत्वप्रत्यये च तीबवाहिन्या गिरिसरितो महत्त्वस्य मन्दवाहिन्या गडायाश्चाल्पत्वस्य प्रसक्तेः। न च कारणगतमहत्त्वाल्पत्वप्रत्ययः, तथा सति भवन्मते तत्समवायिकारणस्याकाशस्य परममहत्त्वेन सर्वेषामपि तथाधीप्रसङ्गः, मूर्त्तकारणगताल्पत्वमहत्त्वप्रत्ययेऽप्यन्यत्र तथापत्तिश्चा किञ्च एकत्वादिसङ्ख्यावत्त्वादपि शब्दस्य द्रव्यत्वम् । न च गगनगतसङ्ख्योपचारः, नियमादेकत्वप्रसक्तेः । वाय्वादिकारणगतसङ्ख्यासम्वन्धित्वमपि न युक्तियुक्तम्, बहुत्वस्यैव सर्वदा भानप्रसङ्गात्, यथायथासङ्ख्याप्रतीतिस्तथा तथा कारणगतसङ्ख्योपचार इत्यपि न युक्तम्, शब्दस्य द्रव्यत्वेन स्वयं सङ्ख्यावत्त्वात् तथोपचारे मानाभावादन्यत्रापि तथापत्तेश्च । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54