Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९ ) ननु वृत्त्यनियामकसम्बन्धेनाश्रयत्वस्यास्वीकारात् कथं व्यभिचार इति चेत्, तथा सति हेत्वसिद्धिरेव । अन्त्ये च भेदाभेदाङ्गीकारे स्याद्वादापत्तिः न च समवायेनेति कथं तदापत्तिः, भिन्नाभिन्नेत्यादिविकल्पतस्तदनुपपत्तेस्तदङ्गीकारे प्रमाणाभावात् । किञ्च गगनाश्रयत्वेन शब्दस्य गुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिस्सन्निकर्षाविशेषात् न च कर्णशष्कुल्यवच्छेदेनोत्पन्नो गृह्यते इति साम्प्रतम्, अवच्छेद्यस्याऽऽकाशत्वेनाविशेषात्, तदन्यत्वे शब्दस्य तत्रासमवायादनायासादेव द्रव्यत्वसिद्धिः । न च तत्तत्पुरुषीयादिघटितभिन्नभि नसन्निकर्षाभ्युपगमेन न साऽऽपत्तिरिति साम्प्रतम्, द्रव्यत्वे संयोगेनैवोपपत्तौ तादृशमहागौरवाङ्गीकारे प्रमाणाभावात् । एतेन "शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः कारणम्” इतिवचोऽप्यवगणितम् । ननु शब्दो विभुद्रव्यं मूर्त्त वा, आद्ये सर्वेषामपि ग्रहणापत्तिः, मूर्त्तद्रव्यत्वे च मूर्त्तद्रव्यप्रत्यक्षं प्रत्युद्भूतरूपस्य कारणत्वान्न तच्छ्रावणमिति चेत्, न, मूर्त्तद्रव्यप्रत्यक्षं प्रति योग्यताविशेषस्यैव हेतुत्वात् । तथा चोक्तम्भव्यजनमनोमयूरवारिदैः श्रीमद्यशोविजयवाचकैः॥ " द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति योग्यताविशेषस्यैव हेतुत्वात् । स च व्यावृत्तिविशेषः शक्तिविशेषो वा " For Private And Personal Use Only ..

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54