Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७) शे सोऽपि कथम्, तथा सति त्रसरेणी तु स निर्वाध एव। किश्चावयवानुपलब्धेरित्यस्य स्वावयवानुपलब्धेरिति पर्यवसितत्वेनाकाशस्यावयवाभावेन तदुपलब्ध्यप्रसिद्धया तदभावस्यापि सुतरामसिद्धेदृष्टान्तासिद्धिः। ननु व्यतिरेकदृष्टान्तेन साधने कथं सेति चेत्,न, अप्रयोजकत्वात् । ननु निरुपाधिकत्वमेव प्रयोजकमस्त्विति चेत्, न, अमूर्तत्वस्यैव तत्त्वात्, तथा हि साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः, सच प्र. कृतेऽपि अपोद्गलिकेषु आत्मादिषु सत्त्वात् साधनवत्सु शब्दोल्कादिषु चासत्वान्निरावाध एव। सूक्ष्ममूत्तान्तराप्रेरकत्वाच्छब्दस्य गन्धादिवदपोद्गलिकत्वसिद्धिरित्यप्यसाम्प्रतम्, अप्रयोजकत्वाद्धृमसूक्ष्मरजोगन्धद्रव्यादिभिर्व्यभिचाराच्च । नहि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नस्मश्रुप्रेरक दृश्यते। शब्दस्य गगनगुणत्वात् तसिद्धिरिति चेत्, न, गुणत्वासिद्ध्या शब्दो न गगनगुणः अस्मदादिप्रत्यक्षस्वाद्रपवदित्याद्यनुमानेन च स्वरूपासिद्धेरप्रयोजकवाच्च । एतेन " आकाशस्य तु विज्ञेयः, शब्दो वैशेषिको गुणः" इति विश्वनाथभट्टाचार्यवचोऽप्यपास्तम्। स्पर्शशून्याश्रयत्वेन तत्सिद्धिरिति तु मन्दम्, शब्दाश्रयभू For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54