Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५) शब्देऽपि सा निराबाधैव । तथा च सुष्ठक्तं श्रीमद्यशोविजयवाचकैः “स एवायं शब्दो यमुदचीचरच्चैत्र इत्यत्रापि हि प्रत्यभिज्ञानमवाधितमेवेति ।” एतेन “सोऽयं क इति बुद्धिस्तु, साजात्यमवलम्बते" इति मुक्तावलीकारवचोऽप्यपास्तम्। न च तीव्रमन्दादिभेदेन शब्दभेद इति वक्तव्यम्। एकस्यैव शब्दस्य निकटदूरदूरतरे तीव्रमन्दमन्दतरपरिणतेः। तथा चोक्तं लोकप्रकाशे, "शब्दादीनां पुद्गला ये, परतः स्युः समागताः। तथामन्दपरीणामा-स्ते जायन्ते स्वभावतः ॥१॥" इति।ननु तीव्रत्वमन्दत्वयोविरूद्धयोरेकत्र निवेशोऽनुपपन्न इति चेत् । न । विरुद्धयो रक्तनीलरूपयोर्घट इवोपपत्तेः। न च तत्र भिन्नकालावच्छेदेन तयोर्वर्त्तनान्न विरोधः, प्रकृतेऽपि तथैवेति किं नाभ्युपगम्यते॥ किञ्चैकस्मिन्नपि पुरुषे पित्रपेक्षया पुत्रत्वस्य पुत्रापेक्षया पितृत्वस्य च दशनादनेकान्तवादे वस्तूनामनन्तधर्मात्मकत्वादेककालावच्छेदेनापि मन्दतीत्रशब्दापेक्षया तीववमन्दत्ववृत्तिरविरुद्धैव ॥ वस्तुतस्तु यच्छब्दे नोक्तभेदस्तच्छब्दस्यैक्येन श्रोत्रप्राप्तेरभावाच्छावणत्वाभावप्रसङ्गः ॥ न च श्रोत्रं चक्षुरायतिरिक्तमिन्द्रियम् इन्द्रियान्तरा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54