Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३) "जं. ते पोग्गलमइया, सकिरिया वायुवहणाओ। धूमो व्व संहरणओ, दाराणुविहाणओ विसेसेणं ॥ तोयं व णितंबाइसु, पडिघायाओ अ वाउव्वति॥१॥" उक्तश्चायमों विनयविजयोपाध्यायैरपि, .. “गन्धादिद्रव्यवहाता-नुकूल्येन प्रसर्पणात्" इत्यादि। तथा च शब्दः क्रियावान् संहरणादिमत्त्वात् इत्याद्यनुमानतःप्रत्यक्षतोऽपि चागतोऽयं शब्द इत्या. दिना कियावत्त्वसिद्धेः । न च तत्प्रयोजकवायुसंहरणानोक्तप्रक्रिया सङ्गच्छत इति वाच्यम्, मृदङ्गध्वन्या. दिषु वायोरनुपलम्भात्तत्प्रतिध्वनेरनुपपत्तेः, स्त्रीपुंनपुंसकोच्चरितशब्दप्रतिवनिषु वैजात्यानुपपत्तेश्चेत्यादिकं बहुतरमूहनीयम् तत्तु वक्ष्यत उत्तरत्र इहैव । न च वाय्वीपाधिक्येव शब्दे गतिरनुभूयमानेति वाच्यम् । आगतेयमिन्द्रनीलप्रभेत्यादिवत्तस्या औपाधिकोत्वासम्भवात् । किञ्च शब्दे क्रियानभ्युपगमे तस्य श्रावणमप्यनुपपन्नं शब्दस्य तत्रानागतेःश्रोत्रस्य च शब्ददेशेऽगमनात् । तथा चोक्तं महामहोपाध्यायन्यायविशारदन्यायाचार्यभगवयशोविजयवाचकैस्स्वकृतन्यायालोके प्रथमप्रकाश आत्मविभुत्वखण्डने “ अन्यथा १ यत्तौ ( गन्धशब्दौ ) पुदालमयौ, सक्रियो वायुवहनात् ॥ धूपवत्संहरणतः (गृहादिषु पिण्डीभवनात) द्वारानुविधानतो विशेपण ॥ तोयवत् नितम्बादिशु (गिरिगुहादिषु) प्रतिघातात् वायुवदिति ॥ विशगा० २०६, २०७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54