Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) ताया भाषावगणायस्स्पर्शवत्त्वेन स्वरूपासिद्धेरनुकूल तर्काभावाच्च । तथा च स्याद्वादमञ्जरीटीकाकारैमल्लिषेणसूरिभिरप्युक्तम्- “शब्दपर्यायस्याश्रयो भाषावर्गणा न पुनराकाशं, तत्र च स्पर्शो निर्णीयत एव, यथा, शब्दाश्रयः स्पर्शवाननुवातप्रतिवातयोविप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धद्रव्याधारद्रव्यपरमाणुवत्" इत्यादि। न चस्पर्शवत्त्वे तत्स्पर्शस्य स्पार्शनापत्तिः, सिंहावलोकनन्यायेन विलोक्यतां तावत्तदाश्रयस्य सूक्ष्मपरिणामपरिणतत्वात् त्रसरेणोरिव स्पर्शनायोग्यत्वात् तत्पशस्याप्ययोग्यत्वेन तदुपपत्तेः। अनुमया तु स्पर्शवत्त्वं शब्दस्य सिद्धमेव। तथाहि।शब्दः स्पर्शवान् स्वसम्बद्धार्थान्तराभिघातहेतुत्वाद्दण्डादिवत् । झरुल्लादिध्वनिविशेषाभिसम्बन्धेन श्रोत्राभिघातः प्रतीत एव तजन्यबाधिर्याधुपलम्भेन। स्पर्शशून्यत्वे च शब्दस्य कालाकाशाभिसम्बन्धवच्छब्दाभिसम्बन्धेपिनासावुपलभ्येत। शब्दसहचरितेन पवनेनैवाभिघात इति तु न।अन्वयव्यतिरेकाभ्यां शब्दाभिसम्बन्धस्यैव तद्धेतुत्वसिद्धेः।अतोपि तस्य द्रव्यत्वसिद्धिः। शब्दस्य स्पर्शवत्वे तदाश्रयस्य तत्त्वं सुतरां स्थितमेव ॥ किञ्च किमिदमाश्रयत्वं संयोगेन तादात्म्येन वा, आये गगनसंयुक्तघटादौ व्यभिचारः।
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54