Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ११ )
यो
गुणश्चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्, यश्चक्षुर्ग्रहणायोग्य वहिरिन्द्रियग्राह्यजातिमान् स स गुएः, यथा स्पर्शः, चक्षुर्यहणायोग्यबहिरिन्द्रियग्राह्यजातिमांश्चायम्, चक्षुर्ग्रहणायोग्य वहिरिन्द्रियग्राह्यजातिमत्वाद्गुणः इति न्यायेन शब्दस्य गुणत्वसिद्धेरिति चेत्, न, अप्रयोजकत्वात् । अन्यथाऽऽकाशादिवदरूपित्वेनाऽऽत्मनोऽप्यचेतनत्वापत्तिः । न च शब्दस्य परमाणुसमूहत्व घटादेखि चाक्षुषस्पार्शनापत्तिरिति वाच्यम् । तस्य सूक्ष्मपरिणामपरिणतत्वेन चक्षुःस्पर्शनायोग्यत्वात् । न चैवं श्रावणमपि माभूदिति वाच्यम् । अन्येन्द्रि यगणाच्छ्रोत्रस्य प्रायः पटुतरत्वेन भाषापरिणतानां सूक्ष्माणामपि तेषां तद्ग्रहणयोग्यत्वात् । तथोक्तं भवविरहसूरिभिः शिष्यहितायामावश्यकवृत्तौ " तस्य ( शब्दस्य ) सूक्ष्मत्वाद्भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रस्य चान्येन्द्रियगणात् प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णातीत्यादि ॥ भणितमिदमर्थतः शब्दग्रहणप्रक्रिया प्रदर्शनद्वारा लोकप्रकाशे विनयविजयोपाध्यायैरपि,
6.6
Acharya Shri Kailassagarsuri Gyanmandir
स्पर्शादिद्रव्यसङ्गाता - पेक्षया द्रव्यसंहतिः । बह्वी सूक्ष्मासन्नशब्द-योग्यद्रव्याभिवासिका ॥१॥
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54