Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) (शब्दक्रियाभावे) श्रोत्रेण शब्दग्रहणं न स्यात् तस्य शब्ददेशेऽगमनात् गमने वाऽवान्तरालवर्तिशब्दानामपि ग्रहणप्रसङ्गात् अनुवातप्रतिवाततिर्यग्वातेषु च प्रतिपत्यप्रतिपत्तीषत्प्रतिपत्तिभेदाभावप्रसङ्गाच्च तस्य. तत्कृतोपकाराद्ययोगात्। न च भेर्यायवच्छेदेन जनितेनायशब्देन निमित्तपवनतारतम्यातारतम्ये कदम्बगोकलकवीचीतरङ्गन्यायेन जनितेष्वनुपरिपाटीतः कप्रदेशप्राप्तेषु शब्देषु नानुपपत्तिः श्रावणस्येति साम्प्रतम् । चापमुक्तवाणसमानजातीयैः प्रतिक्षणप्रभवैरन्यैरेव लक्ष्यप्राप्तिरिति ब्रुवतः शाक्यस्यापि प्रामाणिकत्वापत्तेः। एतेन “आद्यशब्देन बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तेनैव शब्देन जन्यते तेन चापरः एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इत्यादि” तथा “ वीचीतरङ्गन्यायेन, तदुत्पत्तिस्तु कीर्तिता ॥ कदम्बगोलकन्याया-दुत्पत्तिः कस्यचिन्मते ॥१॥" इति विश्वनाथपश्चाननवचो “भेयादिदेशमारभ्य द्वितीयादिशब्दाः शब्दजा” इति तर्कसङ्ग्रहदीपिकाकारवचनमपि व्युदस्तम् ॥ वस्तुतस्तु शब्दस्य द्रव्यत्वे श्रोत्रसंयोगेनैव तद्ग्रहोत्पत्तायुक्तगौरवाङ्गीकारे प्रमाणाभावान च स एवायं बाण इत्यादि प्रत्यभिज्ञानाद् बाणादावेकत्वसिद्धिः, स एवायं क इत्यादिरूपा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54