SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४) सम्बन्धो न तु क्षित्यादीनां तथा । ननु कोऽयं समवायः। परस्परमेकीभावेनावस्थानं यथा पृथ्वीजलादिभिः सह रूपरसादीनामिति चेत्, न, शब्दस्याम्बरगुणत्वासिद्ध्या तेन सह ध्वनेर्लोलीभावेनावस्थानाप्रतीतेः। किश्च समवायस्य सम्बन्धत्वमप्यनुपपन्नमिस्यादि सिंहावलोकनेन विलोक्यताम् । अथाकाश उपलभ्यमानत्वात्तद्गुणता शब्दस्येत्यप्यपरिपेशलम् । एवं सति अर्कतुलकादीनामम्बर उपलभ्यमानत्वात तद्गुणत्वप्रसक्तिः। अथार्कतूलकादीनां परमार्थतो भूम्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि यत्पुनराकाशेऽवस्थानोपलम्भस्तद्वायुना सञ्चा. यमाणत्वात्, तथाहि यतो यतो वायुःसञ्चरति ततस्ततः शब्दोऽपि गच्छति ॥ उक्तञ्च प्रज्ञाकरगुप्तेन॥ यथा च प्रेर्यते तूल-माकाशे मातरिश्वना ॥ तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित्॥१॥ न च तथापि श्रोत्रग्राह्यत्वेन तदाश्रितत्वाच्छब्दस्व श्रोत्रस्य चाकाशरूपत्वात् तद्गुणः शब्द इति साम्प्रतम्। श्रोत्रस्य गगनात्मकत्वे गगनस्य सर्वत्राविशेषाद्वाधिर्याद्यभावप्रसङ्गात्। एतेन “आकाश एकएव सन्नपि उपाधेः कर्णशष्कुलीभेदाद्भिन्नं श्रोत्रात्मकं For Private And Personal Use Only
SR No.020398
Book TitleJain Tattva Pariksha
Original Sutra AuthorN/A
AuthorUdayvijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1917
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy