Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) हरिभद्रसूरिभिः प्रोक्तं सगच्छते॥ इत्यश्च श्रोत्रस्य प्रा. प्यकारित्वेन तस्य व्यञ्जनावग्रहो न चक्षुर्मनसोरित्यप्युपपद्यते । तथा चोक्तं चतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थ सूत्रणसूत्रधारैः श्रीमद्धरिभद्रसूरिभिः शिष्यहिताख्याया मावश्यकटीकायां "शब्दादिपरिणतद्रव्याणां व्यञ्जना नामवग्रहो व्यञ्जनावग्रह इति अयञ्च नयनमनोवर्जेन्द्रि. याणामवसेय इति, न तु नयनमनसोः अप्राप्तकारित्वादिति"एतेन श्री श्रमणसङ्घसमुद्रोत्कर्षेन्दुभिःश्रीमद्यशोविजयवाचकपुङ्गवैरपि व्यञ्जनेन शब्दादिपरिणतद्रव्य निकुरुम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेरवग्रहःसम्बन्धोव्य जनावग्रह इत्यादिज्ञानबिन्दाख्यप्रकरणे व्यञ्जनावग्रहव्युत्पत्तिा प्रतिपादिता साऽपि सूपपादा।व्यक्तीकृतश्चैषोऽर्थः द्रव्यलोकप्रकाशेतृतीयसर्गेश्रीविनयविजयोपाध्यायः, " प्राप्यार्थावच्छेदकत्वात्, श्रवणादीनि जानते। अगुलासङ्ख्येयभागा-दपि शब्दादिमागतम् ॥१॥ चतुर्णामत एवैषां, व्यञ्जनावग्रहो भवेत्। दृष्टान्तान्नव्यमृत्पात्र-शयितोबोधनात्मकात् ॥२॥ यथा शरावकं नव्यं, नैवैकेनोदविन्दुना ॥ क्लिद्यते किन्तु भूयोभिः, पतद्भिस्तैर्निरन्तरम् ॥३॥ एवं सुप्तोऽपि नैकेन, शब्देन प्रतिबुद्ध्यते ॥ किन्तु तैः पञ्चषैःकर्णे,शब्दद्रव्ये ते सति॥४॥इत्यादि, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54