Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) अापत्त्या सहैतच्च, पञ्चधाऽऽह प्रभाकरः। पश्चाप्यनुपलब्ध्या षट्, तान्याहुभट्टसूनवः ॥ ४॥ षड्वै वेदान्तिनोऽप्याहुः, सम्भवाद्यानि चापरे। प्रभूतानामपीहेत्थम्,प्रतिपत्तिरनेकधा ॥५॥" इति। तत्कथमेवं सङ्गच्छते यद्विविधं प्रमाणमितीति चेत्, तन्न, अनुमानस्य परोक्षरूपप्रमाणत्वसमर्थनेन प्रत्यभिज्ञादीनां प्रमाणत्वसत्त्वेनोपमानादीनां प्रत्यभिज्ञादिष्वन्तर्भावेन च चार्वाकाद्यभिहितानामुन्मत्तप्रलपितप्रायत्वात्। ननु प्रत्यक्षस्येन्द्रियजन्यत्वाविशेषे कथं द्विभेद इति चेत्, स्पष्टताजोवातुकस्य तस्येन्द्रियमात्रजन्यत्वस्यासिद्धेः, सांव्यवहारिकप्रत्यक्षस्य बाह्यसापेक्षत्वात् पारमार्थिकस्य चात्मसापेक्षत्वादिति।सांव्यवहारिकमपीन्द्रियनिबन्धनमनिन्द्रियनिवन्धनं चेति द्विभेदम् । इन्द्रियाण्येव स्पर्शनादीनि पञ्च करणानि वस्तु प्राप्याप्राप्य च यज्ज्ञानं जनयन्ति तदिन्द्रियनिबन्धनम्। मन एवासाधारणं कारणं यस्मिंस्तदनिन्द्रियनिबन्धनम्। न च सर्वेष्वपि प्रत्यक्षेषु मनो व्याप्रियत एवेति कथं तदद्विविधमिति वाच्यम्। करणभेदेन तद्भेदात, तथाहि यदसाधारणं कारणं तदेव करणमिति नियमात् स्वप्नावस्थायां बाह्येन्द्रियव्यापारविगमाबाह्यप्रत्यक्षाभावेन बाह्यप्रत्यक्ष इन्द्रियाण्येवासाधारणानि कारणानीति ता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54