Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) मालाकरम्बितेऽनन्तानुबन्ध्यादिकषायपातालकलशावगाढमूले रागद्वेषावसायवाडवानलदन्दह्यमानानन्तजन्तुमालाकुले विचित्रकर्मपरिणत्यगाधसलिले भीमे भवार्णवे निमज्जतां तदुतितीषूणां जन्तूनां तदुत्तरणतन्त्रं तत्त्वावबोधतरण्ड एव सुक्षमः ॥ यदभ्यधायि, "विना ज्ञानं च चारित्रं, कर्मणां न विमोचनम् । न सम्यक्त्वं विना ते तु तच्च तत्त्वावबोधतः ॥ १ ॥ ततश्च कर्मनिर्मुक्ते - भवेन्मुक्तिपुरीं प्रति । गमनं भव्यजन्तूनां परमानन्ददायकम् ॥२॥ सा दृष्टिविधा प्रोक्ता, नैसर्गी चोपदेशजा । केषाञ्चिन्मुक्तियोग्यानां सा निसर्गाद्बुधैर्मता ॥३॥ त्राञ्चिदुपदेशात् सा, मतैवं तत्त्वकोविदैः ॥ तत्त्वज्ञप्त्युपमस्तस्मादुपदेशो भवान्तदः ॥ ४ ॥ स एव यथावस्थिततत्त्वावबोधः परमतनिराकरणपूर्वकस्वमतव्यवस्थापनरूपपरीक्षयैव सम्भवति ॥ विबुधजनमान्या सा परीक्षा च ज्ञानपरोक्षज्ञप्तिवादिभाट्टानां स्वसमानाधिकरणस्वानन्तरसमयसमुत्पदिष्णुमानसेन ज्ञानज्ञानविदां यौगानामचेतनज्ञान वादिसाङ्ख्यानाञ्च लोकालोकवर्त्तिद्रव्यपर्यायात्मकानेकपदार्थसार्थविलोपकब्रह्माद्वैतवादिनां शून्यवादिसौगतानाञ्च निर्विकल्पकप्रत्यक्षप्रमाणत्ववादिनां ताथागतानां स्वलक्षणावगाहित्वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54