Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजैनमारसम्भवाय महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (३०१
सिवे । इदमिति किं इमानि मयैव जातानि मयैव वर्धितानि रमानिवासतां निवासस्य भावो निवासता रमाया निवासता तां लक्ष्म्यावासत्पम् । च अन्यत् माद्यन्मवुपै. (आतोडोऽद्वावामः । ५-१-७६ । इ सू. मधुशब्दपूर्वकपाधातोः डः प्रत्ययः डित्वात् आलोप ।) माधन्तश्च ते मधुपाश्च तैः मत्तभ्रमरैमद्यपैर्वा सड्गतिभवाप्य मम अवाड्मुखीभूय अवाड्मुखं येषां तानि अवाड्मुखानि अवाड्मुखानि भूत्वा अवतस्थिरे । हे विश्वाधिप विश्वानामविपः तस्य संबोधनं हे विश्वाधिप हे चक्रवर्तिन् प्रशाधि (शासऽसहनः शाध्येधिजाह । ४-२-८४ । इ. सू. शास्धातोः यन्तस्य निपात ।) शिक्षां देहि । अहं किं करोमि त्वं मूढजनानुशसने मूढाश्वते जनाश्च तेषामनुशासनं तस्मिन् मूर्खजनशिक्षणे ईशिषे समर्थो भवसि ॥ ६० ॥ ६१ ॥ युग्मम् । निमालनानीरनिधेरधीश्वरः, सरस्वतीनां रसपूर्तिसंस्पृशाम् । अलब्धमध्योऽर्थिनिराश्रितो धनैः, सुतस्तवात्येष्यति न स्वधारणाम् ६२
(०या०) निभालनमिति । हे प्रिये नीरनिधेः नीराणां जलानां निधिः तस्य समुद्रस्य निभालनात् दर्शनात् । रसपूर्तिसंस्पृशाम् रसानां शृङ्गारादीनां पूर्ति (स्त्रियां क्ति । ५-३-९१ । इ. सू. धातो. स्त्रियां भावे तिः । ओष्ठ्यादुर् । ४-४-११७ । इ. सू. तो परेपृधातोः ऋकारस्य उर । भ्वादेमिनो दीर्वोयञ्जने । २-१-६३ । इ सू. उकारस्य दीर्घः । ) पूरणं पक्षे रसस्य जलप्य पूर्ति. पूरणं तां संस्पृशन्ति इति रसपूर्तिसंस्पृश-(स्पृशोऽनुदकात् । ५-१-१४९ । इ. सू रसपूर्तिपूर्वकसंस्पृशधातो. कि प्रत्ययः ।) स्तासां सरस्वतीनां वाणीनां नदीनां च अधीश्वर स्वामी । अलब्धमध्य अलब्धं मध्यं यस्य स. गंभीर. । घनैर्बहुभिरर्थिभिर्याचकैः पक्षे घर्नेमै धैराश्रितः एवंविवस्तव सुत. स्वधारणां स्वस्यधारणा तां निजमर्यादा न अत्येष्यति न अतिक्रमिष्यति ॥१२॥ प्रचेतसापि स्फुटपाशपाणिना, कृपाणिना मध्यशयेन जिष्णुना । न राजनीतेः किल कुलमुद्जो, न्यवारि मात्स्यः समयो भवन्मयि ६३ धरातलं धन्यमिदं त्वयि प्रभो, न यन्नयव्यत्ययदोषमाप्स्यति । इति स्ववीचिध्वनितैरिवस्तुवन् , किमाविरासीत्पुरतोऽस्य वारिधिः ६४

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397